________________
१०४
॥ सवृत्तिपिण्डनियुक्तिः ॥ कादिग्रहणं तत्रैवं सम्बन्धः- उपयाचितकादिना निमित्तेन वालिकेन पुरुषेण करणेन सुतस्योत्पादः, तथा वेतनादिना निमित्तेन तुरङ्गेन करणभूतेनाश्वरस्योत्पादः, एवमुदकादिना निमित्तेन बीजेन करणेन द्रुमादेरुत्पाद इत्येवं सचित्तोत्पादना त्रिप्रकारेति गाथार्थः॥४३५॥ अचित्तद्रव्य-मिश्रद्रव्योत्पादनाद्वयप्रतिपादनार्थमाह
कणग-रयतादियाणं जहे? धाउ विहिया तु अच्चित्ता।
मीसा उ सभंडाणं दुपयादि कया उ उप्पत्ती॥४३६॥ कणग० गाहा। व्याख्या- कनक-रजतादीनां यथेष्टधातूनां योनिप्राभृतादिना या क्रियते समुत्पादना सा अचित्तद्रव्योत्पादना; सभण्डोपकरणानां द्विपदादीनां या विधीयते समुत्पादना सा मिश्रेति सम्बन्ध इति गाथार्थः॥४३६॥ उक्ता द्रव्योत्पादना। अधुना भावोत्पादनामाह
भावे पसत्थ इतरा कोहादुप्पायणा तु अपसत्था।
कोहादिजुया धातादिणं च णाणादि तु पसत्था॥४३७॥ भावे गाधा। व्याख्या- भावे भावविषयोत्पादना द्विविधा, तद्यथा- प्रशस्तेतरा च। तत्र क्रोधाद्युत्पादना त्वप्राशस्ता, तथा क्रोधादियुता धात्र्यादीनां चोत्पादना, एतदुक्तं भवति यत्- क्रोधमानादियुक्तः साधुरात्मनि धात्र्यादिभावमुत्पादयति साऽप्यप्रशस्तभावोत्पादनेति, ज्ञानादिभावोत्पादना तु प्रशस्तेति गाथार्थः॥४३७॥ अप्रशस्तभावोत्पादनया चात्राधिकारः, सा च षोडशभेदेति। आह च नियुक्तिकारः
धाई दूईनिमित्ते आजीववणीमगे तिगिच्छा य। कोहे माणे माया लोभे य हवंति दस एते॥४३८॥ पुट्विंपच्छासंथव विज्जा मंते य चुण्ण-जोगे य।
उप्पायणाए दोसा सोलसमे मूलकम्मे य॥४३९॥ धाई गाहा। पुव्विं गाहा। व्याख्या- धात्री, दूती, निमित्तं, आजीवो वनीपकः चिकित्सा च क्रोधो, मानो, माया लोभश्च भवन्त्येते दशदोषाः।
पूर्वसंस्तवः, पश्चात्संस्तवो विद्या मन्त्रश्च, चूर्णो योगश्चेत्येषणायां दोषाः षोडशो मूलकर्मदोष इति गाथाद्वयपदानि॥४३८-४३९॥ पदार्थं तु स्वयमेव भाष्यकृद् यथावसरं वक्ष्यति। तत्राद्यपदभेदाभिधित्सयाह
खीरे य मज्जणे मंडणे य कीलावणंकधाती य।
एक्केक्का वि य दुविहा करणे कारावणे चेव॥४४०॥ खीरे य गाहा। व्याख्या- क्षीर-मजन-मण्डन-क्रीडनाऽङ्कविषयाः पञ्चधात्र्यो भवन्ति। (टि०) १. ०धाउणवि० ख०॥ २. ०भंडयाणं जे१ को० ॥ ३. धादिषु ता धा० जि०। ०धादिषु धा० जि१॥ ४. ०डशं मूलकर्म इति गा० ला०॥