________________
॥ उत्पादनानिरूपणम् ॥
१०३
सुक्के सुक्कं गाहा। तइयम्मि गाहा । व्याख्या - शुष्के शुष्कं पतितं विवेक्तुं भवति तत् सुखमिति प्रथमः, द्वितीयभङ्गे शुष्के आर्द्रं पतितमित्यस्मिन् शुद्धद्रवं प्रक्षिप्य गालयन्ति पूर्व्वद्रवं करं दत्त्वेति, तृतीयभङ्गे आर्द्रे शुष्कमित्यस्मिन् करं प्रक्षिप्य 'उल्लिंचइ' त्युद्धरति ओदनादि यच्छक्नोति, चरिमे तुरीयभङ्गे आर्द्र आर्द्रमित्यत्र सर्वविवेको दुर्लभद्रव्ये पुनस्तन्मात्रमेवाकल्प्यं समुद्धरन्तीति गाथा-द्वयार्थः॥४२८-४२९॥ उक्तमेवार्थमाह
संथ सव्वमुज्झंति चउभंगो असंथरे ।
२
असढो सुज्झते जेसु मायावी तेसु लग्गती ॥४३० ॥
संथरे सिलोगो । संस्तरणे पर्य्याप्तौ सत्यां सर्व्वमुज्झन्ति; चतुर्भङ्गिका त्वसंस्तरणे भवति । अशठः शुध्यति येषु पदेषु मायावी तेषु लगति = कर्म्मसंश्लेषं यातीति श्लोकार्थः ॥४३०॥ कोडीकरणं दुविहं उग्गमकोडी विसोहीकोडी य । उगमकोडी छक्कं विसोहिकोडी अणेगविहा ॥ ४३१ ॥ नव चेवऽट्ठारसगं सत्तावीसा तहेव चउप्पन्ना। नउई दो चेव सया उ सत्तरा होंति कोडीणं ॥ ४३२ ॥ उक्तं गवेषणैषणायामुद्गमद्वारम् । उत्पादनाद्वारमाह
३
सोलस उग्गमदोसे गिहिणो उ समुट्ठिते वियाणाहि । उप्पाणाय दोसे साधूतो समुट्ठिए जाण ॥४३३॥
सोलस गाहा। व्याख्या- षोडशोद्गमदोषान् पूर्वोक्तान् गृहस्थात् समुत्थितान् विजानीहि; उत्पादनायाः पुनः दोषान् साधुसमुत्थितानेव जानीहीति गाथार्थः ॥ ४३३॥
उत्पादनानिक्षेपप्रदर्शनार्थमाह
णामं -ठवणा - दविए भावे उप्पायणा मुणेयव्वा ।
दव्वम्मि होइ तिविहा भावम्मि य सोलसपया तु ॥ ४३४ ॥
णामं -ठवणा गाहा । व्याख्या- नाम-स्थापना- द्रव्य-भावविषया उत्पादना मन्तव्या । नामस्थापने क्षुण्णत्वादनादृत्य द्रव्योत्पादनामाह- द्रव्ये द्रव्यविषया भवति त्रिविधा सचित्ता - ऽचित्त - मिश्रभेदाद्, भावे भावविषया षोडशपदानीति गाथार्थः ॥ ४३४ ॥ तत्र सचित्ता द्विपद- चतुष्पदा - ऽपदरूपा तामाहआसूयमादिएहिं वालचिय-तुरंग-बीयमादीहिं ।
सुय - आस- दुमादीणं उप्पायणया तु सच्चित्ता ॥ ४३५ ॥
=
आसूय० गाहा । व्याख्या- आसूयं उपयाचितकं ऋतुकालो वा आदिग्रहणाद् वेतनोद(टि०) १. विवेको भवति सु० ला० ॥ २ बज्झइ जे२ । ०ग्गती उग्गमदोसा जे१ को० ॥ ३. इमे द्वे गाथे मूलादर्शेषु तथा प्रस्तुतवृत्तौ नोपलभ्येते अपि तु वीरगणि-मलयगिरिवृत्तौ व्याख्याते ॥ ४ ० से आयसमुत्थे अओ वोच्छं जे१ को० ॥ ५. वोच्छं खं० ॥