________________
१०८
॥ सवृत्तिपिण्डनियुक्तिः ॥ मज्जनधात्रीत्वकरण-कारणविधिर्यथा साधोर्भवति तथा दर्शयन्नाह
लोलइ महीय धूलीय गुंडिओ पहाण अहव णं मजे।
जलभीरु अबलणयणो अइउप्पलणेण रत्तच्छो॥४५२॥ लोलइ गाहा। व्याख्या- साधुर्भिक्षार्थं प्रविष्टो बालकं दृष्ट्वा तज्जननीमाह- "लोठते मह्यां धूल्या गुण्डितोऽयं बाल इति, अतः स्नापर्यनम्, अर्थवैनमहमेव स्नापयामी' ति। अपनीतपूर्वधात्रीस्थापनार्थं द्वितीयधात्रीच्यावनाय दोषानाह- अस्नानेन अतिस्नानेन वा जलभीरुरबलनयनश्चातिप्लावने(न) च रक्ताक्षो भवतीति गाथार्थः॥४५२॥ मज्जनधात्री कीदृशं बालकं कृत्वा मण्डनधात्र्याः समर्पयति। तदाह
अन्भंगिय-संबाहिय-उव्वट्टिय मज्जियं च तो बालं।
उवणेइ हाणधाई मंडणधाईय सुइदेहं ॥४५३॥ अब्भंगिय० गाहा। व्याख्या- अभ्यङ्गित-सम्बाधितोद्वर्तितं सम्मज्जितं च ततो बालमुपनयति स्नानधात्री मण्डनधात्र्याः शुचिदेहं कृत्वेति गाथार्थः॥४५३॥ उक्ता मज्जनधात्री। मण्डनधात्रीत्वमङ्गीकृत्याह
उसुगाइएहिं मंडेहि ताव णं अहव णं विभूसेमि।
हत्थिच्चगा व पाए कया गलिच्चा व से पाए॥४५४॥ उसुआइएहिं गाहा। व्याख्या- 'उसुआइएहित्ति “आभरणविशेषैर्मण्डय तावदेनं अथवाऽहं विभूषयामि" इति। पूर्वधात्रीस्थापनायेतरस्या दोषानाह- हस्तसत्कमाभरणं पादयोः कृतं ग्रीवा'भरणं वा से तस्य बालकस्य पादयोय॑स्तमिति आकर्ण्य गृहिणी भत्रे कथयामास। स च तामपनीय प्राक्कैनीमेव कृतवान्, दोषसम्भवस्तु पूर्ववद् भावनीय इति गाथार्थः॥४५४॥
उक्ता मण्डनधात्री। साम्प्रतं क्रीडनधात्री भण्यतेसाधुर्भिक्षार्थं प्रविष्टो रुदन्तं बालकं दृष्ट्रा भणति मातरम्- “रमय तावदेनं बालकं अहं वा रमयामि" इत्येवं धात्रीत्वं कारयति करोति चेति। पूर्वधात्री स्थापनाय द्वितीयधात्रीदोषोद्भावनार्थं चाह
ढड्डरसर चुन्नमुहो मउयगिरा मंउय मम्मणपलावो।
उल्लावणेगाईहिं व करेइ कारेइ वा किडं ॥४५५॥ ढड्डर० गाहा। व्याख्या- ढड्डरस्वरक्रीडनेन 'छुण्णमुख' इति क्लीबमुखो भवति, मृदुगिरा रेमणेन मम्मणप्रलापो भवतीत्येवं दोषोद्भावनेन द्वितीयामुद्वर्त्य प्राक्तनीमेव स्थापयति, द्वितीयार्द्धं स्पष्टमेवेति (टि०) १. हाणे जे१,२॥ २. लोलते जि१॥ ३. ०थवा आनयैनम० जि०॥ ४. ण्हवणधाई जे१॥ ५. ०धाईए जे४ भां०॥ ६. ०तमार्जितं जि०॥ ७. भूसंमि जे१॥ ८. नीयामेव ला०॥ ९. पमण जे४ भां० जे१ विना॥ १०. म्मणुल्लावो खं० जे२॥ ११. ०णमाईहिं क० जे१॥ १२. भणनेन जि० जि१॥ (वि०टि०) .. वीराचार्यमते 'छुण्णमुहो' इति पाठः स्यात्॥ *. 'मउय' इति पदं वृत्तौ न विवृतम्॥