________________
१००
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
ननु अवध्यवपूरक-मिश्रजातयोः कः प्रतिविशेष इत्याह
तंदुल - जल-आदाणे परिमाणे णाणत्तं अज्झोयर - मीसजाए य ॥ ४१६ ॥
- फले साग- वेसणे लोणे ।
पुप्फ-
तंदुल० गाहा। व्याख्या- तन्दुल- जलादान - पुष्प-फल- शाक-वेषण - लवणादीन्येतानि अध्यवपूरके प्रक्षिपति पश्चात्, मिश्रजाते त्वादित एव साध्वर्थं तन्दुलादि मिश्रयति; एवं परिमाणविषयं नानात्वमध्यपूरकमिश्रजातयोर्नवरं वेषणं = कटुरुंडादीति गाथार्थः ॥ ४१६ ॥ अत्र कल्प्याकल्प्यमाहजावंतिए विसोही सघरपासंडमीसए पूई ।
छिण्णे विसोहि दिणम्मि कप्पइ ण कप्पई सेसं ॥४१७ ॥
अमुमेवार्थं दर्शयन्नाह—
जावंति० गाहा। व्याख्या - यावदन्तिकोऽध्यवपूरको विशुद्धकोटिः, स्वगृहपाखण्डमिश्रकः पूति, 'छिण्णे' त्ति स्थाल्या गृहस्थेनोद्धृते 'विसोहि 'त्ति यावदन्तिकाध्यवपूरके दत्ते वा तस्मिन् कल्पते शेषमिति पाखण्ड- साधुमिश्राध्यवपूरकयोः उद्धृत - दत्तयोरपि न कल्पत इति गाथार्थः ॥४१७॥
छिन्नंमि ततो उक्कडियंमि कप्पइ पिहीकए सेसं ।
आभावणाए दिण्णं व एत्तियं कप्पए सेसं ॥ ४१८॥
छिण्णम्मि गाहा । व्याख्या - यावदन्तिके 'छिण्णम्मि' त्ति कोऽर्थः ? ततः स्थालीत उद्धृत्य पृथक्कृते शेषं कल्पते आभावनया = परिकल्पनया दत्तं वैतावदिति शेषं कल्पत इति गाथार्थः॥४१८॥ उक्तमध्यवपूरकद्वारम्। तदभिधानाच्च षोडशाप्युक्ता उद्गमदोषाः । साम्प्रतमेषामेव विषयविभागोप
दर्शनार्थमाह
एसो सोलसभेदो वि दुहा कीरड़ उग्गमो ।
एगा विसोहिकोडी अविसोही तु चावरा ॥ ४१९॥
एसो सिलोगो । एष षोडशभेदोऽप्युद्गमो द्विधा भवति, कथम् ? इत्याह- विशुद्धकोट्यविशुद्धकोटीभेदाभ्याम्। सङ्कोट्यन्ते बहवो दोषाः सहिता मीलिता एकत्र यस्यां सा कोटी, सा च हननघातना-ऽनुमोदन-पचन-पाचना - ऽनुमोदन - क्रयण-क्रापणा-ऽनुमोदनभेदान्नवविधेति । पुनरेषैवोद्गमकोटी विशुद्ध्यविशुद्धिभेदाद् द्विधा, तत्रोद्गमकोटी षड्विधा विशुद्धकोटी त्वनेकविधेति श्लोकार्थः॥४१९॥
तत्रोद्गमकोटीषविधत्वप्रतिपादनायाह
आहाकम्मुद्देसिगचरिमतिगं पूइ मीसजाते य ।
बादरपाहुडिया या अज्झोयर य चरिमदुगं ॥ ४२० ॥
(टि०) १. ०सजायाणं खं० जे२ ॥ २. ०घरे पा० खं० ॥ ३. ०वगोए जे२ ॥ ४. ०डीओ अ० जे१ ॥ ५. संहिता जि० जि१ ॥ ६. ० दुगो खं० । दुगे जे२ ॥
(वि०टि०) *. उद्गमकोटी = अविशोधिकोटी इत्यर्थः ॥