________________
॥ अविशोधि-विशोधिकोटीप्रतिपादनम् ॥
१०१ आहाकम्मुद्देसिय गाहा। व्याख्या- आधाकर्म, औद्देशिकचरमत्रितयं, पूति तथा मिश्रजातं, बादरप्राभृतिका अध्यवपूरकचरमद्वयं चेति गाथार्थः॥४२०॥
उग्गमकोडी अवयव लेवालेवे य अकयए कप्पे।
कंजिय-आयामग-चाउलोद संसट्ठ पूई तु॥४२१॥ उग्गमकोडी गाहा। व्याख्या- उद्गमकोट्या अवयवेनाऽपि यत् संसृष्टं तत् शुद्धमप्यशनादि पूति भवति। 'लेवालेवे य अकयए कप्पे'त्ति यस्मिन् भाजने लेपा-ऽलेपद्रव्यमुद्गमकोटीसत्कं गृहीतं तद् भाजनमकृतकल्पं न शुद्ध्यति, अकृतकल्पे च शुद्धमपि गृहीतं पूतिर्भवति, काञ्जिका-ऽऽचाम्लतन्दुलोदकसंसृष्टं पूतिर्भवतीति गाथार्थः ॥४२१॥ व्याख्यातगाथाप्रथमपादार्थमाह
सुक्केण वि जं छिक्कं तु असुइणा धोवए जहा लोए।
इय सुक्केण वि छिक्कं धोव्वए कम्मेण भाणं तु॥४२२॥ सुक्केण वि गाहा। व्याख्या- शुष्केनाऽप्यशुचिना यत् स्पृष्टं तद् धाव्यते यथा लोके इति शुष्केनाऽपि स्पृष्टं धाव्यते 'कम्मेणे ति आधाकर्मणा भाजनमिति गाथार्थः॥४२२॥ द्वितीयपादार्थमाह
लेवालेवे त्ति जं वुत्तं जं पि दव्वमलेवडं।
तं पि घेत्तूण कप्पंति तक्कादी किमु लेवडं॥४२३॥ लेवालेवे त्ति सिलोगो। लेपा- लेप इति यदुक्तं मूलगाथायां तदेव सूचयति- यदपि द्रव्यमलेपकृतं वल्ल-चनकादि तदपि गृहीत्वा भाजनं कल्पयन्ति, तक्रादि किमु लेपकृतं गृहीत्वा सुतरां कल्पयन्तीति श्लोकार्थः॥४२३॥ तृतीयपादे काञ्जिकादिग्रहणे चोद्यपरिहारप्रदर्शनार्थमाह
आधाय जं कीरइ तं तु कम्मं वजेहिती ओदणमेगमेव।
सोवीर-आयामग-चाउलोद कम्मं ति तो तग्गहणं करेंति ॥४२४॥ आधाय रूपकम्। आधाय यत् क्रियते तदेवाधाकर्मेति एवंविधया शङ्कया मा वर्जयिष्यन्ति ओदनमेकमेवेत्यतः सौविरा-ऽऽचाम्ल-तन्दुलोदकाद्यपि आधाकर्मेति ज्ञापनार्थं सौवीरादिग्रहणं कुर्व्वन्त्याचार्या इति रूपकार्थः॥४२४॥ उक्तोद्गमकोटी। विशुद्धकोटीमाह
सेसा विसोहिकोडी भत्तं पाणं विगिंच जहसत्ती।
अणलक्खियमीसदव्वे सव्वविवेगोऽवयवे सुद्धो॥४२५॥ सेसा रूपकम्। अविशुद्धकोट्या अन्या सा विशुद्धकोटी क्रयण-क्रापणा-ऽनुमोदनरूपा अथवा अनेकप्रकारा यत उक्तम्(टि०) १. व्यामो चा० ख०॥ २. सुइएण खं०॥ ३. घेत्तुं ण जे१ को० ॥ ४. ०वडे खं०॥ ५. तदेतत् सू० जि० जि१॥ ६. ०लोदगं खं० विना। लोया जे४ भां०॥ ७. दवे खं० विना॥ ८. गो य अवय० जे१॥