________________
॥ अनिसृष्टदोषनिरूपणम् ॥ अदत्तादानं च तद् भवति, एकानेकद्रव्यव्यवच्छेदश्च, 'णिच्छुभण'त्ति निष्कालनादयो दोषाः साधोविकालवसत्यलाभे च ये दोषास्ते च स्युरिति गाथार्थः॥४००॥ उक्तं स्वाम्याच्छेद्यद्वारम्। इदानीं स्तेनकाच्छेद्यमाह
तेणा व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए।
वोच्छेद पदोसं वा ण कप्पए कप्पऽणुण्णायं॥४०१॥ तेणा व गाधा। व्याख्या-स्तेनका वा संयतार्थमात्मार्थं वा दरिद्रसार्थिकेभ्यः आच्छिद्य पाथेयादि साधुभ्यो दधुः। एतच्च न कल्पते, यतोऽमी दोषाः- सार्थिकास्तद्रव्यान्यद्रव्यव्यवच्छेद-द्वेषादि कुर्युः। सार्थिकाऽनुज्ञातं तु कल्पते इति गाथार्थः॥४०१॥
संजयभद्दा तेणा आयंती वा असंथरे जतिणं।
जति देंति ण घेत्तव्वं णिच्छुभ वोच्छेद मा होजा ॥४०२॥ एतदेवाह
घयसत्तुयदिटुंतो समणुण्णाता व घेत्तुणं पच्छा।
देति तगं तेसिं चिय समणुण्णाता व भुंजंति॥४०३॥ दारं॥ घयसत्तुय० गाहा। व्याख्या-घृत-सक्तुदृष्टान्तेन सार्थिकैः समनुज्ञाताः साधवो गृहीत्वा पश्चाद् गतेषु चोरेषु तत् तेभ्यः सार्थिकेभ्यः प्रयच्छन्ति समनुज्ञाता वा भुञ्जत इति गाथार्थः॥४०३॥ उक्तमाच्छेद्यद्वारम्। इदानीमनिसृष्टद्वारमाह
अणिसिटुं पडिकुटुं अणुण्णायं कप्पए सुविहियाणं।
लड्डुग-जंते(त)-चोल्लगे-संखडि-खीरावणादीसु॥४०४॥ अणिसटुं गाहा। व्याख्या- निसृष्टम् = दत्तमनुज्ञातं वा तद्विपरीतमनिसृष्टं = प्रतिकृष्टम्, प्रतिषिद्धमित्यर्थः, अनुज्ञातं तु कल्पते सुविहितानाम्। तच्च त्रिधा, तद्यथा- साधारणानिसृष्टं चोल्लंकानिसृष्टं यन्त्रानिसृष्टं च। तत्र साधारणानिसृष्टमाह- लड्डक-यन्त्र-चोल्लक-सङ्खडी-क्षीरा-ऽऽपणादिविषयं तद् भवतीति। तत्र यन्त्रं द्विधा- इक्षुयन्त्रं तिलयन्त्रं च, आपणं वीथिरिति गाथार्थः॥४०४॥ साधारणानिसृष्टोदाहरणमाह
बत्तीसा सामण्णे ते कहिं ? हाउं गय त्ति इति वुत्तो।
परसंतिएण पुण्णं न तरसि काउंति पच्चाह॥४०५॥ (टि०) १. कप्पए अणुण्णा० खं०॥ २. अति अन्ती खं०॥ ३. अस्या गाथाया व्याख्या लघुवृत्त्यादर्शेषु नोपलभ्यते। अस्या गाथाया अनन्तरं एका अधिका गाथा मूलादर्शेषु उपलभ्यते सा चेयम्- तेणगभएण घेत्तुं समणुनाया गिहीहिं वा पच्छा। दिति तयं तेसिं चिय समणुण्णातो व भुंजंति॥ ४. पश्चाद्गतेभ्यश्चोरेभ्यस्तत् जि१ ला०॥ ५. गचोल्लगजंते जे१ जे२ को० विना॥ ६. ते वि य ण्हा० खं० ॥१॥ (वि०टि०) .. वीरगणि-मलयगिरिसूरिमतेन ‘चोल्लग-जंते' इति पाठः। *. चोल्लक = भोजन इति ला० टि०॥