________________
९६
॥ सवृत्तिपिण्डनियुक्तिः ॥ द्रष्ट्रा खिंसति स्वपतिं "भोईपत्नी रुदन्ति च चेटरूपाणीति गाथार्थः ॥३९५॥
पडिचरणपओसेणं भावं णाउं जइस्स आलावो।
तन्निब्बंधा गहियं हंदि स मुक्को सि मा बितियं ॥३९६॥ पडियरण० गाहा। व्याख्या– यद् गोपसत्कं प्रभुणाऽऽच्छिद्य पयो दत्तं साधवे स गोपो गृहिण्या अतीव रटितः सन् सञ्जातप्रद्वेषः साधुप्रतिचरणं गेवषणं कुर्वन् साधुना ददृशे। तद्भावं च ज्ञात्वा तत्परितोषणार्थमेवं आलापं चक्रे– “प्रभुनिबन्धान्मया गृहीतम्, तवाऽर्पणाय चोद्यतोऽहं, न च भवद्गृहं जानामीति गृहाणेदम्"। ततो गोपेन सञ्जातोपशमेनोक्तं- “तवैव तिष्ठतु चिरं च त्वया जीवितव्यमिति मुक्तोऽसि; द्वितीयमेवं मा कार्षीः" इति गाथार्थः॥३९६॥ दोषान्तरापादनार्थमाह
णाणिव्विट्ठ लब्भइ दासी वि ण भुजए रिते भत्ता।
दोण्हेगयरपओसे जं काहिति अंतरायं च॥३९७॥ णाणिव्विटुं गाहा। व्याख्या- प्रभवे रुष्टो गोप एवमाह- ‘णाणिव्विटुं लब्भईत्ति नानुपार्जितं लभ्यते, यतो दास्यपि न भुज्यते ऋते भक्तान्, भरणपोषणं विनेति भावः। द्वयोर्दातुर्ग्रहीतुश्चोपरि प्रद्वेषं कुर्यादन्यतरस्य वा प्रद्वेषे सति यत् कुर्यादसङ्खडादि कुटुम्बादेरन्तरायं चेति गाथार्थः॥३९७॥ ___ उक्तं प्रभुविषयमाच्छेद्यद्वारम्। अधुना स्वामिविषयमाच्छेद्यमुच्यते
__सामी चारभडा वा संजय दट्टण तेसि अट्ठाए।
कलुणाणं अच्छेज साहूण न कप्पए घेत्तुं॥३९८॥ सामी गाहा। व्याख्या- स्वामी ग्रामादीनां, चारभटा राजवल्लभाः, ते संयतान् दृष्ट्वा तदर्थं दरिद्र्य(?द्र)कुटुम्बिभ्य आच्छिद्य साधुभ्यः प्रयच्छन्ति, तच्च न कल्पते ग्रहीतुं साधूनामिति गाथार्थः॥३९८॥ किं तदाच्छिद्य ददाति ? इत्याह
आहारोवहिमाई जइअट्ठाए उ कोइ अच्छिंदे।
संखडि असंखडीए व तं गिण्हते इमे दोसा॥३९९॥ आहार० गाधा। व्याख्या- आहारोपध्यादि यत्यर्थं कश्चिदाच्छिद्य दद्यात् कलहेनाऽकलहेन वेति। तदेवंविधं गृह्णतोऽमी दोषा इति गाथार्थः ॥३९९॥
अचियत्तमंतरायं तेणाहड एगऽणेगवोच्छेओ।
णिच्छुभणाई दोसा वियालऽलंभे य जं पावे॥४००॥ दारं॥ अचियत्त० गाधा। व्याख्या- अचियत्तं = अप्रीतिः, अन्तरायं च कुटुम्बिनां स्यात्; स्तेनाहृतं (टि०) १. सपति भोयप० ला०॥ २. गोपपत्नी जि१॥ ३. प्रभो रु० ला० जि१॥ ४. ददती० जि१ ॥ ५. ०सा तस्स अलंभे जे४ भां०॥ (वि०टि०) .. भोईपत्नी = भृतकभार्या इत्यर्थः।।