________________
॥ आच्छेद्यदोषनिरूपणम् ॥ गाथार्थः ॥३९०॥ इदं तु मालापहृतं न भवतीत्याह
दद्दर-सिल- सोवाणे पुव्वारुढे अणुच्चमुक्खित्ते।
मालोहडं न होती सेसं मालोहडं होइ॥३९१॥ ददर० गाहा। व्याख्या- निश्चला- शुषिरा-ऽसंसक्तदईरशिलासोपानादिषु पूर्वारूढः साधुना। अनुच्चोत्क्षिप्तपात्रकादौ यद्ददाति तन्मालापहृतं न भवति शेषं तु मालापहृतं भवतीति गाथार्थः॥३९१॥ उच्चोत्क्षिप्ता-ऽनुच्चोत्क्षिप्तयोः स्वरूपमाह
तिरियायतउज्जुकतेण गेहए जं करेण पासंतो।
एयमणुच्चुक्खित्तं उच्चुक्खित्तं भवे सेसं॥३९२॥ दारं॥ तिरियाय० गाहा। व्याख्या- तिर्यक् तिरश्चीनेनाऽऽयतेन = प्रसारितेन ऋजुकृतेन यद् वस्तु ग्राह्यं करेण गृह्णाति पश्यन्नेतदनुच्चोत्क्षिप्तं उच्चोत्क्षिप्तं भवेच्छेषमिति गाथार्थः॥३९२॥ उक्तं मालापहृतद्वारम्। अधुनाऽऽच्छेद्यद्वारमाह
अच्छेज्जं पि य तिविहं पभू य सामी य तेणए चेव।
अच्छेजं पडिकुटुं समणाण ण कप्पते घेत्तुं॥३९३॥ अच्छेजं गाधा। व्याख्या- आच्छेदनीयं = आच्छेद्यम्, आच्छिद्य यद् ददातीत्यर्थः, तदुपाधिभेदात् त्रिविधं, तद्यथा- प्रभु-स्वामि-स्तेनविषयम्। तत्र प्रभुः गृहादेः, स्वामी ग्रामादीनाम्, स्तेनः प्रतीतः, तद् एतदाच्छेद्यं त्रिविधमपि प्रतिषिद्धं श्रमणानां न कल्पते ग्रहीतुमिति गाथार्थः॥३९३॥ तत्र प्रभुविषयमाच्छेद्यस्वरूपमाह
गोवालए य भयएऽखरए पुत्ते य धूय सुण्हा य।
अचियत्त-संखडाई केइ पओसं जहा गोवो॥३९४॥ गोवाल० गाहा। व्याख्या- गोपालक-भृतक-दास-पुत्र-दुहितृ-स्नुषाः प्रसिद्धार्था एतेभ्यः प्रभुराछिद्य साधवे ददाति। अत्र दोषमाह- अप्रीत्यसङ्खड-प्रद्वेषादयो दोषाः, प्रद्वेषे गोपालोदाहरणमिति गाथार्थः॥३९४॥ तदाह
गोवपओ अच्छेत्तुं दिण्णं तु जइस्स भतिदिणे पहुणा।
पयभाणूणं दटुं खिंसति भोगी रुवे चेडा॥३९५॥ गोव० गाहा। व्याख्या- गोपदुग्धमाच्छिद्य दत्तं तु यतये भृतिदिने प्रभुणा। पयोभाजनं न्यूनं (टि०) १. सोमाणे जे२ विना॥ २. क्षिप्ता पा० जि० जि१॥ ३. गेण्हंते जे१ को०॥ ४. जे१ तथा को० प्रतौ अस्या अनन्तरं अधिका गाथा उपलभ्यते सा चेयम् - “होइ पभू घरभाणे सामी पुण गामसामिओ भणिओ। तेण य पसिद्ध गोच्चिय एयच्छिण्णं ण गेण्हेजा। (वि०टि०) *. वीरगणिमतेन 'गतेण' इति पाठः स्यात्। तथा च तट्टीका- तिर्यक् तिरश्चीनः आयतः-प्रसारितः ऋजुःअवक्रो यो बास्तत्र गतः-स्थितस्तेन... इति वीर०॥.. असखडः = कलह इत्यर्थः॥