________________
८४
॥ सवृत्तिपिण्डनियुक्तिः ॥
महत्तरगृहादौ ‘संच्छूभई' इति प्रवेशयति गाथाद्वयार्थः॥३३७-३३८॥ गतं परभावक्रीतम्। अधुना आत्मभावक्रीतमाह
धम्मकहि-वादि-खमए णिमित्त-आतावए सुतट्ठाणे।
जाती-कुल-गण-कम्मे सिप्पम्मि य भावकीयं तु॥३३९॥ धम्मकहि गाहा। व्याख्या- धर्मकथि-वादि-क्षपके निमित्ताऽऽतापके श्रुतस्थाने जातिकुल-गण-कर्मणि शिल्पे चैतेषु स्थानेष्वात्मभावक्रीतं, सम्भवतीति क्रिया अध्याहार्यो। तत्र धर्मकथी यो धर्मं कथयति, वादी यो वादं विदधाति, क्षपको मासाद्युपवासतपःकर्ता, निमित्त इति तद्वान् गृह्यते, अर्शादि ( ) पाठाद् अच्प्रत्ययात्, शीतोष्णादिष्वात्मानं आतापयतीति आतापकः, श्रुतस्थान इति गणि-वाचका-ऽऽचार्योपाध्यायादयो गृह्यन्ते। जातिाह्मणादिका, कुलमुग्रकुलादि, गणः सारस्वतादिः, कर्म कृष्यादिकं शिल्पं च चित्रादीति गाथापदार्थः॥३३९॥ आत्मभावक्रीतसम्भवमाह
धम्मकहाआक्खित्ते धम्मकहाउट्ठियाण वा गेण्हे ।
कहयंति साहवो च्चिय तुमं व कहि पुच्छिते तुसिणी॥३४०॥ धम्मकहा० गाहा। व्याख्या- धर्मकथाऽऽक्षिप्तेभ्यः = अनुरक्तेभ्यो ‘धम्मकधाउट्टियाण वत्ति धर्मकथाऽनुकूलितेभ्यो वा गृह्णात्याहारादि। “किं त्वं धर्मकथी ?" इति पृष्ट एवमाह– “साधव एव धर्मं कथयन्ति।" तुष्णीं वाऽऽस्ते इति गाथार्थः॥ ३४०॥ प्रकारान्तरेण चाह
किं वा कहेज छारा दगसूयरिया व अहवऽगारत्था।
किं छगलगगलवलया मुंडकुडुंबी व किं कहए॥३४१॥ किं वा गाहा। व्याख्या- 'किं वेति न किञ्चिदित्यर्थः कथयेयुः 'छारा' इति सरजस्काः 'दगसूअरिया व' इति साङ्ख्या 'ऽगारत्था' इति गृहाश्रमिणः किं वा 'छगलगगलवलय'त्ति मीमांसका 'मुण्डकुटूम्बी'ति रक्तभिक्षव एते वराकाः किं कथयन्तीति गाथाभावार्थः॥३४१॥
एमेव वाइ-खमए निमित्त-आतावगम्मि य विभासा।
सुयठाणं गणिमादी अहवा वाणाय(?यणा)रियमादी॥३४२॥ दारं॥ एमेव गाधा। व्याख्या- एवमेव यथा धर्मकथिनि तथा वादिनि, क्षपके, निमित्ते आतापके च 'विभाषे'ति विविधा व्याख्येत्यर्थः, पश्चाद्धं गतार्थमिति गाथार्थः॥३४२॥ व्याख्यातं क्रीतकृतद्वरम्। अधुना प्रामित्यद्वारमाह
पामिच्चं पि य दुविहं लोइय लोउत्तरं समासेण। लोइय सज्झिलिगादी लोउत्तर वत्थमादीसु॥३४३॥
(टि०) १. अच्छए जे१॥ २. किं व खं०॥ ३. ०ख्याः गार० ला०॥ ४. ज्झिलमादी जे१ को०॥