________________
॥ प्रामित्यदोषनिरूपणम् ॥
८५
पामिच्चं गाधा । व्याख्या - प्रामित्यं = साध्वर्थमुच्छिद्य दानलक्षणं द्विविधं लौकिकं लोकोत्तरं च समासेन संक्षेपेण। तत्र लौकिके 'सज्झिलिगाई 'ति भगिन्याद्युदाहरणमित्यर्थः, लोकोत्तरे वस्त्रादिविषयमुदाहरणमिति गाथार्थः ॥ ३४३ ॥ तत्र तावत् लौकिकमुदाहरणमाह
=
सुयअभिगमणायविही बहि पुच्छा एग जीवति ससा ते । पविसण पागनिवारण उच्छिंदण तेल्ल जतिदाणं ॥ ३४४ ॥ अपरिमियणेहवुड्डी दासत्तं सो य आगओ पुच्छा । दासत्तकहण मा रुद अचिरा मोएमि अप्पाहे ॥ ३४५॥ भिक्खुदगसमारंभे कहणाउट्टो कहिं भे वसहि त्ति ।
सम्मवया आहरणं विसज्जकहणा कतिवया तु ॥ ३४६ ॥
सुयअभिगम० गाधा। अपरिमिय० गाहा । भिक्ख० गाहा । व्याख्या- श्रुताधिगमेन ज्ञातो विधिः - क्रियारूपो येन साधुना सः = श्रुताधिगमज्ञातविधिः, स च विहरन् स्वजनदर्शनार्थं ग्रामं जगाम । तत्र च बहिर्व्यवस्थितेन कश्चित् पृष्टः । तेनोक्तं- “एकैव जीवति स्वसा ते" । स च स्वसृगृहं प्रविष्टः तया च पाकः समारब्धः। तेन च निवारिता । ततश्चोच्छिद्य तया तैलं दत्तम् । अपरिमितस्नेहवृद्ध्या च दासत्वमभूत् तस्याः। स च भूयोऽप्यागतो । बहिः पृच्छा कृता, दासत्वकथनं च श्रुत्वा तेनोक्तं- "मा रुदिहि, अचिरान्मोचयामीति सन्दिष्टम् । तेन च भिक्षार्थं प्रविष्टेन भगिनीस्वामिगृहे उदकसमारम्भो निवारितः । तेन च प्रह्वीभूतेन साधुः पृष्टः- “क्व भवतां वसतिरिति ?” । स चाह— “नास्ति नो वसतिः”। तेन च दत्ता। धर्मकथापूर्व्वकं सम्यक्त्वव्रतानि ग्राहितः स्थापत्योदाहरणं चाख्यातम्। तत्र पुत्रविसर्जनकथनम्, तेन च तद्भगिनी विसर्जिता प्रव्रजिता च । कियन्तो चेदृशा इति गाथात्रयसमुदायार्थः ॥३४४-३४६॥
४
भावार्थस्तु कथानकादवसेयः । तच्चेदं - तेणं कालेणं तेणं समयेणं कोसलविसए एगो कुलपुत्तओ होत्था। सो य धम्मं सोऊण संजायसंवेगो णिक्खंतो। कालेण य समहिगयसुत्तत्थकिरियाकलाव सयणदंसणत्थं गओ। बहिट्ठिएण पुच्छितो एगो पुरिसो “को णे सण्णायगाणं जीवति ?” । तेण भणियं“ उच्छण्णं सव्वं पि ते कुलं णवरमेगा भगिणी ते जीवति” । ततो इमं णिसामिऊणं पविट्ठो भगिणीगेहं । साय तं णिमित्तं पागं कुणमाणी णिवारिता साहूणा । " अहो ! एस भट्टारगो पागं ण गेण्हइ" त्ति चिंतेंतीए उच्छिंदिऊण दिण्णं से तेल्लं । गहियं साहूणा । तओ य विहरिओ साहू । तेल्लं पि अपरिमियसिणेहवुड्डीए बहु । ततो तं दाउमचायंतीए दासत्तं पडिवण्णं । कालांतरेण पुणो वि आगओ साहू । मुणियं च से दासत्तं बहिट्ठिएणेव । ततो तेण अप्पाहितं " मा रुअ; अचिरेण च तं दासत्ताओ मोएमि" । एवं
(टि०) १. एत्ताहे भां० जे४ ॥ २. ०हिं च भे वसहिं खं० ॥ ३. स्पष्टीभूतेन जि१ ॥। ४. व्याख्यातं ला० ॥ ५. कथानकं तेन जि९ ॥ ६. कमेण जि० ॥ ७ ०त्थमागओ जि१ ॥