________________
८३
॥ क्रीतकृतदोषनिरूपणम् ॥ आयकीयं पि य दुविहं दव्वे भावे य दव्वे चुण्णादी।
भावे उ परस्सट्ठा अहवा वी अप्पणा चेव॥३३४॥ आतकीयं गाहा। व्याख्या- आत्मक्रीतमपि द्विविधं द्रव्ये भावे चेति। तत्र द्रव्ये चूण्र्णादयो भावे तु 'परस्सट्ठ'त्ति परभावेन क्रीतं संयतार्थं 'अहवावि अप्पणा चेवे ति आत्मभावेनेति गाथार्थः॥३३४॥ साम्प्रतमात्मक्रीतं द्रव्यविषयमाह
निम्मल्ल-गंध-गुलिया वण्णग-पोत्ता य आयकय दव्वे।
गेलण्णे उड्डाहो पउणे चडुकारि अहिकरणं॥३३५॥ णिम्मल्ल० गाहा। व्याख्या- निर्माल्य-गन्ध-गुलिका-वर्णक-वस्त्रादिभिरात्मक्रीतं द्रव्ये, कोऽत्र दोषः ? इत्याह- चूर्णादिप्रदानान्तरं नितरां मान्द्ये मरणे वा गृहस्थस्य उड्डाहः = प्रवचनोपघातः स्यात्। अथ कथञ्चिन्नीरोगत्वं ततश्चाटुकारिता साधोरधिकरणं चेति गाथार्थः॥३३५॥ उक्तं द्रव्यक्रीतम्। साम्प्रतं भावक्रीतमाह; तत्तु स्व-परभावभेदाद् द्विधा। तत्र परभावक्रीतं स्पष्टयन्नाह
वइयाए मंखमादी परभावकओ तु संजयट्ठाए।
उप्पायणा णिमंतण कीयगडे अभिहडे ठविए॥३३६॥ वइया० गाहा। व्याख्या-व्रजादिषु ‘मंखमाई परभावकउत्ति मङ्खादेः परभावेन क्रयः संयतार्थम्, तुशब्दः पूरणार्थः, स च मङ्खः क्षीराद्युत्पाद्य साधूनामन्त्रयति। अत्र च दोषत्रयमाह-क्रीतकृता-ऽभ्याहृतस्थापनारूपमिति नियुक्तिगाथासमुदायार्थः॥३३६॥ अमुमेव स्पष्टयन्नाह
सागारिमंखछंदणपडिसेहो पुच्छ बहुगते वासे। करि दिसिं गमिस्सह ? अमुगिं तहिं संथवं कुणइ॥३३७॥ दिजंते पडिसेहो कजे घेत्थं णिमंतण जतीणं।
पुव्वर्गय आगतेसुं संछुभई एगगेहम्मि॥३३८॥ सागारि० गाहा। दिजते गाहा। व्याख्या- सागारी = शय्यातरः मङ्खो देवगृहवित्तो देवल इत्यनर्थान्तरम्, सागारी चासौ मङ्खश्च (इति) विग्रहः, तस्य सम्बन्धिनी निमन्त्रणा, तस्याः प्रतिषेधः, साधुभिः कृत इति गम्यते। तेन चाननुगृहीतेन दित्सुना पृच्छा कृता- “गतप्राये वर्षाकाले कतरस्यां दिशि यूयं गमिष्यथ ?"। तेऽप्यूचुः "अमुकस्यां दिशि।" तत्र चाग्रतरं गत्वा मङ्खः संस्तवं = परिचयं करोति, दीयमाने च क्षीरादौ प्रतिषेधः क्रियते अनेन, किमभिदधता ? – “कार्ये ग्रहीष्यामी"ति। स च निमन्त्रणां करोति पूर्वगतः पश्चादागतेषु साधुषु। स च क्षीरादि मीलयित्वैकत्र स्थापयति। (टि०) १. दव्वचु० खं०॥ २. भावंमि खं० जे२ को० ॥ ३. सटुं तु पर० जि०॥ ४. तत्र जि१॥ ५. कयं खं० जे४ भां०॥ ६. ०गते खं०॥ (वि०टि०) .. मलः = देवपूजक इति ला० टि०॥