________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
मच्छिय गाधा। व्याख्या– मक्षिका धर्म्मश्चान्तः = मध्ये बहिः पुनः प्रवातं, प्रकाशमासन्नं च इति = एवं आत्मार्थीकृते ग्रहणं प्रकटकरणे विभाषेयमिति गाथार्थः ॥ ३२९॥
पुनरपि प्रकाशकरणं स्पष्टयति तदाह
८२
कुड्डस्स कुणइ छिड्डुं दारं वड्डेइ कुणइ अण्णं वा । अवणेड़ छायणं वा ठवेइ रयणं व दिप्पंतं ॥ ३३० ॥ जोड़ - पदीवे कुणइ व तहेव कहणं तु पुट्ठपुट्ठे वा ।
२
अत्तट्ठिए तु गहणं जोड़ - पड़वे . उ वज्जित्ता ॥ ३३१ ।। दारं ॥
कुड्डस्स गाहा । जोइ० गाहा । व्याख्या - कुड्यस्य करोति छिद्रम्, द्वारं वर्द्धयति, करोत्यन्यद् वा अपनयति च्छादनं वा स्थापयति रत्नं वा दीप्यमानम् । ज्योतिः प्रदीपौ करोति वा तथैव कथनं यथा प्रकटकरणे पृष्टेऽपृष्टे वा परिहरति, आत्मार्थीकृते तु ग्रहणं ज्योतिः प्रदीप वर्जयित्वेति गाथार्थः ॥३३०-३३१॥
३
पागडपगासकरणे कयम्मि सहसा व अहवऽणाभोगा । गहियं विगिंचिऊणं गेण्हइ अन्नं अकयकप्पे ॥ ३३२ ॥ व्याख्यातं प्रादुःकरणद्वारं ॥ छ ॥ अधुना क्रीतकृतद्वारमाह
कीगडं पि यदुविहं दव्वे भावे य दुविहमेक्वेक्कं । आयकियं च परकियं परदव्वं तिर्विह चित्ताई ॥ ३३३ ॥
कीयगडं गाहा । व्याख्या - तत्र क्रयणं क्रीतं भावे निष्ठाप्रत्ययस्तेन कृतं = निर्व्वर्त्तितं क्रीतकृतमिति, साध्वर्थमिति गम्यते । तच्चोपाधिभेदाद् द्विविधम्, तद्यथा - द्रव्ये भावे चेति, अत्र तृतीयार्थे सप्तमी । तच्चैकैकं द्विविधम्, तद्यथा- आत्मक्रीतं परक्रीतं च । तत्र यत् परद्रव्यक्रीतं तत् त्रिविधं - सचित्ता - ऽचित्त - मिश्रद्रव्यक्रीतं भवति । तत्र सचित्तं त्रिविधं द्विपद-चतुष्पदा - ऽपदस्वरूपेण दासाऽश्व-धान्यादिक्रयेण, अचित्तेन हिरण्यादिना, मिश्रेण सभाण्डोपकरणेन दासादिनेति गाथार्थः॥३३३॥
६
उक्तं परद्रव्यक्रीतम्। साम्प्रतमात्मक्रीतमाह
(टि०) १. ०तट्ठियादि ग० जे४ भां० विना ॥ २. दोसु वि य जहा पुरकएसु जे१ को० ॥ ३. इयं अधिका गाथा वीर०मलय०वृत्तौ विवृता उपलभ्यते । विशेषजिज्ञासुभिरस्या विवरणं तद्वृत्तितोऽवसेयम् ॥ ४. ०विहे जे२ ॥ ५. क्रमेण जि० जि१ ॥ ६. ०तम् द्रव्यविषयमाह जि१ ॥
(वि०टि०) यत्यर्थं पूर्वं बहिश्शुल्ल्यादि कृत्वा काचिदेवं चिन्तयति - च गृहस्य मध्ये बहवो मक्षिका अन्धकारं च पाकस्थानाद् भोजनस्थानं दूरस्थं बहिश्च प्रवातं तेन मक्षिकादयो न भवन्ति तथा प्रकाशमासन्नं च पाकस्थानाद् भोजनस्थानं तस्माद् अद्यप्रभृति अत्रैव वयं सदैव आत्मनिमित्तं पक्ष्याम इत्येवमात्मार्थीकृते कल्पते इति भावः ॥ * ज्योतिः प्रदीपौ वर्जयेत् ताभ्यां प्रकाशितमात्मार्थीकृतमपि न कल्पते, तेजस्काय - दीप्तिसंस्पर्शनाद् इत्याशयः ॥