________________
॥ प्रादुष्करणदोषनिरूपणम् ॥ प्रकटकरणस्वरूपमाह- ‘पायड संकामण'त्ति यद्देयं तद् अभ्यन्तराद्वहिर्निष्काल्य ददाति चुल्ली वा बहिः करोतीति भावः।
साम्प्रतं प्रकाशकरणमाह- 'कुड्डदारपाए य च्छण्णे य'त्ति तत्रस्थस्यैव देयस्य कुड्यछेदनेन द्वारपातेन तृणादिच्छादनापनयनेन प्रकाशं करोतीति गाथार्थः॥३२५॥
रयणपदीवे जोती ण कप्पइ पगासणा सुविहियाणं।
अत्तट्ठिय परिभुत्तं कप्पइ कप्पं अकाऊणं॥३२६॥ रयण० गाधा। व्याख्या- रत्न-प्रदीप-ज्योतिर्भिः प्रकाशना न कल्पते सुविहितानाम्; 'अत्तट्ठिय'त्ति स्वीकृतं गृहस्थेन कल्पते। 'अपरिभुत्तं कप्पति कप्पं अकाऊणं ति अत्रेयं भावनासहसाऽनाभोगतो वा प्रकट-प्रकाशदोषाघ्रातमशनादि गृहीत्वा तत् परिष्ठाप्य अन्यच्छुद्धं गृह्णाति कल्पमकृत्वैव, पात्रकस्येति गम्यते, सूचनात् सूत्रमिति गाथार्थः॥३२६॥ प्रकटकरणार्थं स्पष्टयन्नाह
संचारिमा उ चुल्ली बहिं व चुल्ली पुरा कया तेसिं।
तहि रंधति कयाती उवही पूर्ति च पागो य॥३२७॥ संचारिमा उ गाधा। व्याख्या- 'संचारिमे'त्ति अभ्यन्तराद् बहिश्शुल्लिं सञ्चारयन्ति, बहिर्वा पूर्वकृतायां चुल्ल्यां राध्नुवन्ति, वाशब्दात् साध्वर्थमभिनवां वा चुल्लिं कुर्वन्ति। तत्र द्वौ दोषावाह चउपधिपूतिः पाकश्च, उपधिना चुल्लिरूपेण पूतिराहारो भवति पाकप्रवृत्तिश्चेति भाव इति गाथार्थः॥३२७॥ अन्यदा यदर्थं प्रकटनादि कृतवती तमेषणासमितं साधुं दृष्ट्वा एवमाह अगारीति
णेच्छह तिमिसे त्ति ततो बाहिरचुल्लीए साहु ! सिद्धण्णे।
इयं सोउं परिहरए पुढे सिटुंमि वि तहेव ॥३२८॥ णेच्छह गाहा। व्याख्या- यतो यूयमन्धकारे नेच्छथ ग्रहीतुम्, भिक्षामिति गम्यते प्रक्रमाद्, अतो बहिश्शुल्ल्यां सिद्धं = राद्धं, प्राकृतशैल्या ‘णे'त्यस्माभिः ‘साधो'इत्यामन्त्रणम्, इदं च श्रुत्वा परिहरति। स्वयं वा पृष्टे (शिष्टेऽपि) परिहरति तथैवेति गाथार्थः॥३२८॥ एतच्च स्वीकृतं कल्पते। कथमस्य सम्भव इत्याह- .
मच्छिय घम्मा अंतो बाहि पवायं पगासमासण्णं ।
इति अत्तट्ठिय गहणं पागडकरणे विभासेयं ॥३२९॥ (टि०) १. तत्स्वस्यैव जि१॥ २. ०सणे खं०॥ ३. ०शनान्न क० जि०॥४. व खं। य जे४ भां०॥५. रंधेति खं०॥ ६. संति खं०॥ ७. उ खं० विना॥ ८. सण्णे जे१ को०॥ ९. ०भासेसा खं० जे१॥ (वि०टि०) .. 'पाओ'त्ति सूचनादाहारपाकदोषः = भक्तादिपचनगतं दूषणं स्वयोगेन प्रवृत्तोऽपि ह्याहारपाकः साध्वर्थ बहिःकृतम् इति दोषः, चः समुच्चये, इहोपधिपूतित्वं प्रसङ्गादुक्तमिति पाक इत्यनेनैव प्रक्रान्तं तथा चुल्ल्या पृथक्कृते पूतित्वमुत्तरति परं प्रकटनदोषेण न कल्पते... इति वीर०॥ .. "प्रादुष्करणशङ्कायां किमर्थमयमाहारो अद्य गृहस्य बहिस्तात् पक्कः ? इत्येवं पृष्टे तया ऋजुतया यथावस्थिते कथिते तथैव परिहरति" इति मलय०॥
२५