________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
चरणकरणपरिहीणे अण्णम्मि य आगए गहिय पुच्छा। इहलोगं परलोगं कहेइ चइउं इमं लोगं ॥ ३२२॥ णीयदुवारम्मि घरे भिक्खं णेच्छंति एसणासमिया । जं पुच्छसि मज्झ कहं कप्पड़ लिंगोवजीवीऽहं ॥ ३२३ ॥ साहुगुणेसणकहणं आउट्टा तंमि तिप्पड़ तहेव।
कुक्कुड चरंति एते वयं तु चिण्णव्वया बितिओ ॥ ३२४ ॥ लोय० गाहा। दड्रूण गांहा। णीयदुवारे गाहा । चरण गाहा । णीयदुवारम्मि गाहा । साहुगुणे० गाहा । व्याख्या - लोचेन विरलमुत्तमाङ्गं यस्य सः, तथा तपसा कृशं, जल्लो = मलस्तेन कलुषितशरीरं, युगमात्रान्तरदृष्टिं, अत्वरतिश्चासौ अचपलश्च तम्, स्वगृहमागच्छन्तं दृष्ट्वा चानगारं श्राद्धिका संवेगमागता । काचिद्विपुलमन्नं पानं च गृहीत्वा तद्दानार्थं निर्गता । अत्राऽवसरे निर्गतो यतिरिति किमर्थं ? यतो नीचद्वारे गृहे न शुद्धत्येषणेति कृत्वा, यत एवमागमः - "णीयदुवारं तमसं कोट्ठगं परिवज्जए" (दशवै० ५/१/२०) इत्यादि । निर्गते च साधौ तिष्ठत्यगारी व्रीडितेव = लज्जितेव गृहीतेन, प्रदेयेनेति गम्यते ।
८०
अत्राऽवसरे चरणकरणपरिहीणेऽन्यस्मिन् आगते, द्रव्यसाधाविति प्रक्रमः, गृहीते च तेन देये प्रश्नस्तया कृतः- “किमित्यनेन परित्यक्ता भवता तु गृहीतेयं भिक्षा ?” । स च इहलोक - परलोकौ सञ्चिन्त्येहलोकं त्यक्त्वा परलोकमेव कथयामास, संविग्नपाक्षिकत्वात् । किं तद् ? इत्याह- "नीचद्वारे गृहे भिक्षां नेच्छन्ति एषणासमिताः; यच्च पृच्छसि मम कथं कल्पते तदहं लिङ्गोपजीवी ” ति साधुगुणानामेषणायाश्च कथनं क्रियते तेनैव, साधुनेति गम्यते । एतदाकर्ण्य चिन्तयामास – “अहो दुष्करमिदं यत् स्वदोषाऽऽविष्करणं परगुणोत्कीर्त्तनं चे 'ति । अतः 'आउट्टे 'ति अनुकूला तस्मिन् संविग्ने तृप्यति = तमाहारादिना प्रीणयतीति भावः ।
पुनरत्रान्तरे साधुवेषविडम्बको द्वितीयो द्रव्यमुण्डः समागतः । सोऽपि तथैव तयोक्त एवमाह“कुक्कुड चरन्ति मातृस्थानिनोऽमी यतयः, यतो न गृह्णन्ति भिक्षाम् । अस्माभिरप्येतत् प्रागेवानुष्ठितम्, साम्प्रतं वयं चीर्णव्रता आस्महे" इति गाथार्थः।।३१९-३२४॥
साम्प्रतं प्रागुपन्यस्तप्रादुःकरणव्याचिख्यासयाह
पाओकरणं दुविहं पागडकरणं पगासकरणं च । पागड संकामण कुड्डदारपाते य छण्णे य ॥ ३२५ ॥
पाओकरणं गाहा । व्याख्या - प्रादुःकरणं द्विविधं तद्यथा- प्रकटकरणं प्रकाशकरणं च । तत्र
(टि०) १. ०णालसंमि जे१ को० विना ॥ २. तं तु खं० ॥ ३. चरियं जि१ ।। २. पाहोक० खं० ॥