________________
॥ प्राभृतिकादोषनिरूपणम् ॥ अप्पत्तम्मि व ठवियं ओसरणे होहिइ त्ति उक्कसणं।
तं पागडमियरं वा करेइ उज्जू अणुजू वा॥३१६॥ अप्पत्तंमि उ गाधा। व्याख्या- अप्राप्त एव स्थापितं विवाहदिनं समवसरणे, समवसरणकालादधः स्थापितमित्यर्थः, तद्दिनमुत्सारयति, समवसरणकाल एव करोतीति भावः। तद् अवसर्पणमुत्सर्पणं वा ऋजुः श्रावकः प्रकटं करोति यथा साधवोऽपि संविद्रते इतरस्तु अनृजुस्तथा करोति यथा मुनयोऽपि न *विदन्तीति गाथार्थः॥३१६॥ एतच्चावसर्पणादिकं किमर्थं करोतीत्याह
मंगलहेडं पुण्णट्ठया व ओसक्कियं दुहा पगयं।
उस्सक्कियं ति किं ति ? य पुढे सिट्टे विवजंति॥३१७॥ मंगल० गाधा। व्याख्या- मङ्गलहेतुं पुण्यार्थं वा यतः साधुसंविभागदानात् महन्मङ्गलं पुण्यं वाऽतोऽवसर्पितमुत्सर्पितं वा। “किं कारणमयमारम्भः ?" एवं साधुना पृष्टे श्रावकेन च ऋजुनाऽऽख्याते "भवदर्थमिदम्" अन्यतो वा श्रुते वर्जयन्ति तमाहारमिति गाथार्थः॥३१७॥ प्राभृतिकोपभोगदोषदर्शनार्थमाह
पाहुडिभत्तं भुंजइ ण पडिक्कमए य तस्स ट्ठाणस्स।
एमेव अडति बोडो लुक्कविलुक्को जह कवोडो॥३१८॥ पाहुडि० गाहा। व्याख्या- यथोक्तं प्राभृतिकाभक्तं भुङ्क्ते; न प्रतिक्रामति तस्मादपराधस्थानाद् अव्यावृत्या तदेवासेवत इत्यर्थः। एमेव = वृथैव अटति बोडः = मुण्डो, द्रव्यमुण्ड इति भावः, स चैवमुत्प्रेक्ष्यते- लुप्तविलुप्तो यथा कपोत इति गाथार्थः॥३१८॥ उक्तं प्राभृतिकाद्वारम्। अधुना प्रादुष्करणद्वारं प्राप्तम्, तत्र तावत् प्रथमं तत्सम्भवमाह
लोयविरलुत्तिमंगं तवोकिसं जल्लखउरियसरीरं। जुगमेत्तरदिहि अतुरियऽचवलं सगिहमेंतं ॥३१९॥ दट्टण य अणगारं सड्डी संवेदमागया काइ। विपुलऽण्णपाण घेत्तूण निग्गया निग्गओ सो य॥३२०॥ णीयदुवारम्मि घरे ण सुज्झइ एसण त्ति काऊणं। णीहम्मिए अगारी अच्छइ विलिता वे गहिएणं ॥३२१॥
(टि०) १. उक्किसइ खं०॥ २. कमोडो जे१ को०॥ ३. उ जे१॥ ४. णीहरियंमि जे२॥ ५. उ जे२॥ (वि०टि०) .. निश्चितं विवाहदिनं किल अनायाते साधुसमुदाये भविष्यति ततो न किमपि मदीयं विवाहसत्कं साधूनामुपकरिष्यतीति कृत्वा विवाहं समवसरणकाले एव करोतीत्याशयः॥ *. “अथाप्रकटं तर्हि निपुणं शोधयित्वा वर्जयन्ति निपुणशोधनेऽपि यदि कथमपि न परिज्ञानं भवति तदा न कश्चिद्दोषः, परिणामस्य शुद्धत्वात्" इति मलय०॥