________________
७८
॥ सवृत्तिपिण्डनियुक्तिः ॥ अण्णट्ठ उट्ठिया वा तुब्भ वि देमि त्ति किं ति परिहरड़।
किह दाणि ण उट्टिहिसी ? साहपभावेण लब्भामो॥३१२॥ अण्णट्ठ गाहा। व्याख्या- “अन्यार्थमुत्थिता साध्वर्थमिति यावत् भवतोऽपि दास्यामी'ति एतद् वचो डिम्भमातुः श्रुत्वा साधुः पृच्छति- “किमेतद् ?" इति, तया चाख्याते परिहरति, भिक्षामिति गम्यते।
प्राप्ते च साधौ डिम्भ एवमाह-किं साम्प्रतमपि न उत्तिष्ठसि ? अवश्यं साधुभिक्षादानार्थमुत्थातव्यं भवत्या, अतोऽहमपि मुनेः प्रभावाल्लप्स्य इति गाथार्थः॥३१२॥ तत्र प्रतिपादिता अवसर्पणरूपा सूक्ष्मप्राभृतिका। साम्प्रतं तूत्सर्पणरूपसूक्ष्मप्राभृतिकाप्रतिपादनार्थमाह
मा ताव झंख पुत्तग ! परिवाडीए इहेइही साहू। एयट्ठमुट्ठिया ते दाहं सोउं विवज्जति ॥३१३॥ अंगुलियाए घेत्तुं कड्डइ कप्पट्टओ घरं जत्तो।
किं ति ? कहिए ण गच्छइ पाहुडिया एस सुहुमा उ॥३१४॥ दारं॥ मा ताव गाहा। अंगुलियाए गाधा। व्याख्या- डिम्भेन याचिता जननी एवमाह- "मा तावत् प्रलप पुत्रक ! परिपाट्या एष्यत्यत्र साधुः, एतदर्थं = साध्वर्थमुत्थिता भवतोऽपि दास्यामि।" एतच्च श्रुत्वा वर्जयन्ति साधवस्तद्वस्तु इति प्रथमगाथार्थः॥३१३॥
अगुल्या ग्रहीतुमाकर्षति डिम्भः, साधुमिति गम्यते, स्वगृहं यतः। साधुस्तमाह- "किमिति मां नयसि ?"। स वक्ति- त्वदर्थमुत्थिता ममाऽपि भोजनं दास्यति।" एवं ज्ञात्वा न तत्र गच्छतीति। एषोत्सर्पणसूक्ष्मप्राभृतिकेति द्वितीयगाथार्थः॥३१४॥
उक्ता द्विविधाऽपि सूक्ष्मप्राभृतिका। साम्प्रतं 'कप्पछीए समोसणे'त्ति इत्यनेन नियुक्तिगाथाचतुर्थपादेन प्राक् संसूचितां बादरामपि द्विभेदामाह
पुत्तस्स विवाहदिणं ओसरणेऽतिच्छिते सुणिय सड्ढो।
ओसक्के तो सरणे संखडिपाहेणगदवट्ठा ॥३१५॥ ___ पुतस्स गाहा। व्याख्या-पुत्रस्य विवाहदिनं समवसरणेऽतिक्रान्ते श्रुत्वा श्राद्धकोऽवसर्पयति समवसरणे सङ्खडीप्रहेणक-द्रवार्थम्। इयमत्र भावना- निजसुतविवाहमङ्गलं समवसरणकालादूर्द्ध चिकीर्षितं समवसरणकाल एव करोति साधुसंविभागार्थमिति गाथार्थः॥३१५॥
उक्ताऽवसर्पणरूपा बादरप्राभृतिका। अधुनोत्सर्पणरूपां बादरमाह(टि०) १. एयस्स उढि० खं० विना॥ २. बच्चइ जे२॥ ३. ओसरूं तो जे१ को०॥ (वि०टि०) .. ग्रहीतुम् = गृहीत्वा इत्यर्थः॥ *. यतः = प्रतीत्यर्थः इति ला०टि०॥ १. समवसरणे = साधुसमुदाये इत्यर्थः॥ V. साधुसमुदायस्य सखडीगतलड्डुक-तन्दुलधावनादिदानार्थं विवाहदिनं श्राद्धकोऽवसर्पयति इत्याशयः॥