________________
॥ अर्हम् ॥ श्रीवीराचार्यैरनुसन्धिता
पिण्डनिर्युक्तिवृत्तिः
॥ ॐ नमः ॥
प्रणिपत्य जिनवरेन्द्रं वीरं वागीश्वरीं च सर्व्वीयाम् । देद्दाचार्य्यं च गुरुं निष्पादितशिष्यसङ्घातम् ॥१॥ हरिभद्रसूरिविरचितटीकायाः साधुपिण्डनिर्युक्तेः । स्पष्टं व्यधत्त शेषं वीराचार्य्यो यथाशक्त्या ॥२॥ अथ स्थापनाद्वारव्याख्यानानन्तरं क्रमप्राप्तं प्राभृतिकाद्वारमाह
पाहुडिया वि य दुविहा बादर सुहुमा य होइ नायव्वा । ओक्कण उस्सक्कण कप्पट्ठीए समोसरणे ॥ ३१० ॥
पाहुडिया गाधा। व्याख्या - तत्र प्राभृतमिव प्राभृतिका, यथा किञ्चिद् वस्तु परमभक्त्या दीयमानं प्राभृतमुच्यते, तद्वत् भिक्षाऽपि साधवे प्राभृतिकेति ।
सा चोपाधिभेदाद् द्विविधा, तद्यथा - बादरा सूक्ष्मा च । तत्र अवसर्पणोत्सर्पणभेदाभ्यां पुनरेकैका द्विविधेति सम्बन्धनीयम् । तत्र विवक्षितकालावधेरधः सर्पणं अवसर्पणम्, विविक्षितकालादारतः करणमित्यर्थः। तद्विपरीतं तूत्सर्पणमिति निर्युक्तिगाथापादत्रयाक्षरार्थः, चतुर्थपादार्थं तूपरिष्टाद् वक्ष्याम इति निर्युक्तिगाथासमुदायार्थः॥ ३१०॥
=
७७
४
तत्र प्रत्यासत्तेर्न्यायाद् अवसर्पणभेदभिन्नसूक्ष्मप्राभृतिकाप्रतिपादनार्थमाह भाष्यकारःकन्तामि ताव पेलुं तो ते दाहामि पुत्त ! मा रोद । तं जइ सुणेड़ साहू न गच्छती तत्थ आरंभो ॥ ३११ ॥
कन्तामि गाहा। व्याख्या- 'कृणन्मी'ति कृती वेष्टने (पा० धा० १४४७) इत्यस्य रौधादिकस्य उत्तमपुरुषेकवचनान्तमेतत् कर्त्तनं करोमीत्यर्थः, तावत् पेलुं = रूतपोणिकां ततः = कर्त्तनक्रियाविरमे तव दास्यामि । " हे पुत्र ! मा रोदी: ” इत्येवं स्वसुतमाह जननी उत्थिता सती, साध्वर्थमिति गम्यते उत्तरंगाथातः, तद् एतत् गृहिणीप्रलपितं यदि श्रृणोति साधुस्ततो नेच्छति तदाहारादिकम्, मा भूदारम्भकृतो दोष इति । कर्त्तनक्रियासमाप्तौ दास्यामीति साध्वागमनमुद्दिश्य उत्थाय पुत्रस्याऽपि ददातीत्यवसर्पणमिति भावनेति गाथार्थः ॥ ३११॥ अमुमेवार्थं स्पष्टयति
(टि०) १. उवसक्कण ओसक्कण खं० ॥ २. अहिसक्कण जे१ को० ॥ ३. कब्बट्टे चेव ओस० खं० ॥ ४. रोव खं० विना ॥ (वि०टि० ) . वीराचार्यमते ओसप्पण उसप्पण इति पाठः स्यादिति अस्माकं आभाति ॥ *. वीराचार्यमते 'साहू न गच्छती' स्थाने 'साहू णेच्छती' इति मूलपाठः स्यादिति अस्माकं आभाति॥