________________
अचिन्तयत्ततो राजा, हहा ! कीदृगुपस्थितम् । यज्जिह्वान्तपलं ग्राह्यं, स म्रियतेऽन्यथा त्वियम् ॥५५०॥ पुनर्विमृश्य ज्ञात्वा चाऽऽत्मानमजास्तनन्धयम् । रोमाञ्चाऽञ्चितगात्रोऽभूद्राजा पुनरचिन्तयत् ॥५५१॥ प्रतिज्ञाता प्रतिज्ञा मे, जिह्वया ह्यनयैव तु । यद्यनयैव पूर्णा सा, तत्कि नाऽभूत् प्रियं मम ? ॥५५२।। किञ्च- राज्येनाऽथ शरीरेण, सन्तोऽन्यमुपकुर्वते । म्रियमाणां स्त्रियं जिह्वाखण्डेन किमहं न हि ? ॥५५३।। ततश्चाऽशोधयित्वाऽपि, पुरुषं तं तथाविधम् । आदाय शस्त्रिकां पाणौ, साऽवष्टम्भो नृपोऽवदत् ॥५५४॥ अहो ! वैद्याऽहमेवाऽस्मि, जातोऽजाक्षीर पोषितः । मज्जिह्वान्तपलेन त्वमुल्लाघां कुविमां स्त्रियम् ॥५५५।। हस्तेनैकेन जिह्वाऽग्रं, धृत्वाऽन्येन च शस्त्रिकाम् । यावत्तां छेत्तुमारेभे, तावन्नभस्यभूद्वचः ॥५५६।। अलममङ्गलाऽऽधानजिह्वाच्छेदेन भूपते ! । पीयूषवर्षिणी सैषा, चिरं प्रीणयतां प्रजाः ॥५५७॥ आविरासीत्ततो देवी, दिव्याऽलङ्कारशालिनी । स वैद्यो रोगिणी साऽपि, क्वाऽप्यगात्तत् क्षणादपि ॥५५८॥ सम्भ्रान्तश्चिन्तयामास, राजा किमिदमद्भतम् ? । कैषा देवी ? क्व सा मन्दा स्त्री ? वैद्यश्च ययौ क्व सः ? ॥५५९॥ इति ससम्भ्रमं भूपं, देवी सा प्राह भूपते ! । श्रीमच्चन्द्राननापुर्या, अधिष्ठात्र्यस्मि देवता ॥५६०॥ मया ते दत्तराज्यस्य, परीक्षेयं कृता खलु । नियूंढोऽसि च सत्त्वेन, चिरं राज्यं कुरुष्व तत् ॥५६१॥
सत्त्वेऽजापुत्रकथा ।