________________
नाथाऽस्या अन्त्रसाडोऽभूदस्मादृशामगोचरः ।
औषधैरपरैर्वाऽप्यसाध्यः स्ववैद्ययोरपि ॥५३८॥ तदैव पश्यतां तेषां, दुर्गन्धीनि बहून्यपि । मुखेन मांसशकलान्योत्कुर्वती च साऽवमत् ॥५३९।। समीक्ष्य तां तथा राजा, करुणाऽमृतसागरः । वैद्यान् यद्वित्थ तत्तावत्कुरुतेत्यादिशन्मृदुः ॥५४०॥ राजाऽऽदेशाद्ददुर्वैद्यास्तस्यै योग्यमथौषधम् । तदुग्रतापतः शीघ्रमचैतन्यमवाप सा ॥५४१॥ राज्ञा च भोः ! पयः शीतं, व्यञ्जनं चाऽऽनय द्रुतम् । इत्युक्तः पुरुषः कोऽपि, तदाऽऽनीयाऽनिलं व्यधात् ॥५४२॥ नाथाऽस्माकमसाध्योऽयमित्यगुर्गदवेदिनः । रोगिण्याश्च पुनश्छदिर्जुगुप्स्याऽभूत्तदैव हि ॥५४३।। तथाभूतामिमां पश्यन्नुत्तप्तनकुलीमिव । पुनर्वैद्यान् समाहूयाऽदापयच्चौषधाऽन्तरम् ॥५४४॥ अनिवृत्ते गदे तस्याः , स भूपो नाऽपिबत् पयः । सन्तो ह्यकृतसन्धाऽर्थाः, परित्यजन्त्यसूनपि ॥५४५।। यान्ती मूर्छा क्षणादाश्वासितां तां श्वसतीं पुनः । प्रेक्ष्य राज्ञो मनोऽप्यासीत्तद्दशानुविधायकम् ॥५४६।। अथाऽकस्मात्कुतोऽप्यागाद्, वैद्यो वैदेशिकस्तदा । किमेतदिति वाचा च, तेन प्रेक्ष्यत रोगिणी ॥५४७।। विमृश्याऽन्तः किमप्याह, रोगोऽस्या मम गोचरः । राजा सहर्षमाहैनं, यद्येवं त्वं यतस्व तत् ।।५४८|| सकारुण्यमिवाऽऽहैष, यदानयत सम्प्रति । केवलाऽजाक्षीरपुष्टनरजिह्वान्तजङ्गलम् ॥५४९।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।