________________
इत्याशीर्वादमुखरा, प्रदायाऽऽभरणानि सा । ययौ स्वस्थानमेषोऽपि, राजा पालयति प्रजाः ॥५६२॥ रात्रावजासुतः शय्याविश्रान्तः श्रान्तमानसः । अनागच्छन्त्यां निद्रायां, पप्रच्छ सुहृदं कथाम् ॥५६३।। सोप्याऽऽक्षेपकथामर्हद्धर्माऽऽश्रितां मृदूक्तिभिः । शृणुतेति हि भाषित्वा, स्पष्टमाचष्ट सत्कथाम् ॥५६४॥
ग्रन्थाग्रम् ॥६०७॥ तथाहि
५०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।