SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ वीक्षितुं रात्रिवृत्तान्तं, सञ्जातभयकौतुकः । दूरे प्रोच्चैस्ततो भानुरारुरोहोदयाऽचलम् ॥५०२॥ तदा च सचिवः पुरू, डिण्डिमं द्रागवादयत् । न भेतव्यं जना ! यद् वो, बभूवाऽजासुतो नृपः ॥५०३॥ एतदाकर्ण्य पूर्लोकश्चन्द्रापीडेन पीडितः । हृष्टोऽकार्षीत् पुरीशोभामनादिष्टोऽपि भूभुजा ॥५०४।। ततश्च राजलोकेषु, पूर्जनेषु नियोगिषु । राजन्येषु स्वस्वौचित्योपनीतोपायनेष्वथ ॥५०५॥ शङ्खध्वनौ प्रवृत्ते च, जयवादिषु बन्दिषु । वादिते पञ्चशब्दे च, स्त्रीगीतमङ्गलध्वनौ ॥५०६॥ पूर्वदिक्स्थापितस्वर्णसिंहासने निवेश्य तु । अजापुत्रस्य मन्त्र्याद्या, राज्याऽभिषेकमादधुः ॥५०७॥ [त्रिभिर्विशेषकम्] राज्ञा च सचिवाऽऽलोचाव्यापाराः स्वनियोगिनाम् । आदीयन्त तथाऽन्योऽपि, सच्चक्रे सकलो जनः ॥५०८॥ चन्द्रापीडनृपाऽऽदेशान्मार्गरक्षामुपेयुषः । ससैन्यान्मण्डलेशान् स प्रावेशयत्प्रसादतः ॥५०९॥ सर्वमप्यात्मसात्कृत्वा, पूर्व राज्यपरिग्रहम् । स राज्यं पालयामास, स्वराज्यमिव वासवः ॥५१०॥ रूपलावण्यसम्पूर्णा, भूभुजां बहुकन्यकाः । स्वयंवरतया याताः, पर्यणैषीदजासुतः ॥५११॥ अथ– कोकिलाकूजितैराशु, जाग्रत्पञ्चेषुभूभुजि । आपानगोष्ठीमिलितगुञ्जन्मधुपकेतके ॥५१२॥ द्राक्षामण्डपविस्ताराऽलब्धमध्याऽर्करोचिषि । पादावर्त्तपतत्पाथः, शीतशीकरशाद्वले ॥५१३॥ सत्त्वेऽजापुत्रकथा ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy