________________
दक्षिणाऽनिलकल्लोललोलन्माकन्दमञ्जरौ । दोलाकेलिलुलद्धारपौरस्त्रीगीतशर्मणि ॥५१४।। मानिनीमानसन्धानच्छेदमेदुरनर्मणि । हल्लीसकभ्रमिभ्राम्यत्तरुणीजनविभ्रमे ॥५१५।। एवंविधवराऽऽरामे, रामाजनपरिष्कृतः । वसन्तसमये प्राप्ते, ययावजासुतो नृपः ॥५१६।। [पञ्चभिः कुलकम्] तस्मिन् सान्तःपुरे तत्र, क्रीडति स्वेच्छया नृपे । श्लोकमेकं पपाठैको दूरस्थः कोऽपि मानवः ॥५१७।। यत्र तिष्ठसि नित्यं त्वं, वसन्तीं तत्र मातरम् । अदृष्ट्वाऽपि हि भुंक्षे चेत्तत्ते धिग् हंस ! हंसताम् ।।५१८॥ एतदाकर्ण्य राजाऽपि, चिन्तयामास चेतसि । श्लोकेनाऽनेन कोऽप्याख्यत्, पुरीस्थां मातरं मम ॥५१९॥ सुबुद्धिं चाऽऽह भो मन्त्रिन् !, वयं भोक्ष्यामहे तदा । यदात्ममातरं साक्षाद्, द्रक्ष्यामो निजचक्षुषा ॥५२०।। तदैवाऽगान्नृपः सौधं, स्वराज्यं गणयन्मुधा । किं विना स्वजनान् स्वांस्तु, गरीयस्याऽपि सम्पदा ॥५२१॥ ततश्चाऽऽकार्य प्रच्छन्नं, चरं समाधिशन्नृपः । दक्षिणेन बहिर्वप्रात् पशुपालोऽस्ति वाग्भटः ॥५२२॥ ततस्त्वं पृच्छ गत्वा तं, कोऽप्यास्तेऽभूच्च ते सुतः । इत्युक्ते भूभुजा गत्वा, चरः पप्रच्छ तं तथा ॥५२३।। सोऽप्याख्यन्नहि मे पुत्रो जातः किन्त्वध्वनि स्थितः । गृहीत्वा पोषितः सोऽपि, वृद्धो भूत्वाऽगमत्क्वचित् ॥५२४॥ इति स तद्वचः श्रुत्वा, राज्ञे व्यज्ञपयत्तथा । राजाऽपि गतसन्देहश्चरवाचाऽभवत्ततः ॥५२५॥
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।