SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ तदैव भूभुजा सैन्यं, सनाथं मण्डलेश्वरैः । पराऽवस्कन्दरक्षाऽर्थमादिष्टं निरगात्पुरात् ॥४९०॥ एतावत्यन्तरे मन्त्री, व्यजिज्ञपदजासुतम् । यदेते पुरुषाः स्वं स्वं, स्वरूपं प्राप्यतामिति ॥४९१॥ कृते तेन तथाऽऽत्मीयान्, वानारोह्य तेष्वथ । अजापुत्रं पुरस्कृत्य, सुबुद्धिसचिवोऽचलत् ॥४९२॥ स मार्गे मारयन् लोकं, कृतान्त इव निर्दयः । ससैन्यः प्राविशद्राजद्वारेऽघ्नन्नङ्गरक्षकान् ॥४९३।। राजद्वारप्रतोल्यां स, मुक्त्वाऽऽत्मीयांस्तु पुरुषान् । मन्त्री साऽजासुतः सौधमारुरोह निमेषतः ॥४९४॥ चन्द्रापीडनृपो राजा, लोकैः सर्वैरुपेक्षितः । दधावे सम्मुखं तेषां, खड्गमाकृष्य धैर्यभाक् ॥४९५॥ जितकासी नृपो युद्ध्यमानस्तैः सचिवाऽऽदिभिः । अजापुत्रेण खड्गेन, प्रेषितो यममन्दिरम् ॥४९६।। तदैव सचिवो राज्ये, न्यवीविशदजासुतम् । पूर्णप्रतिज्ञो हर्षाऽश्रुजलैः सिञ्चन्नमूं पुरीम् ॥४९७।। यतः- बहुसमवायो यस्मिन्, स खलु महान् स महतोऽपि मान्यश्च । सकलेन्द्रियपरिकरणादुपरितनोरुत्तमाङ्गं यत् ॥४९८॥ द्विसहस्रप्रमाणैस्तैर्हस्तिभिर्वाजिनां पुनः । अष्टानवतिसहनै राजा तामनयन्निशाम् ॥४९९॥ अविज्ञातस्वरूपाणां, पौराणां भीर्बभूव सा । यया प्रौढसपन्येव, सङ्गन् निद्राऽपि नाऽपि तैः ॥५००॥ गूढदुष्करकार्याणां, सिद्धावाद्यसहायिका । कृत्वा साहाय्यमेतस्य, कृतकृत्या निशाऽगमत् ॥५०१॥ ४४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy