________________
चन्द्रापीडो मयोच्छेद्यः, प्रतिज्ञेति ममाऽधुना । एनमाश्रित्य पूर्णा स्यादित्युपेत्य ननाम तम् ॥ ४७८।। आख्याय पूर्ववृत्तान्तमात्मनस्तस्य चाऽथ सः । ऊचे मनोरथा नाथ ! पूर्णा मे तव दर्शनात् ॥ ४७९॥ राज्यं देवतया दत्तं, तवेदानीं सख्यान्वहम् । तत्प्रीणय प्रजा राज्यमादाय तेन पीडिताः ॥४८०॥
अथोपलक्ष्य तं श्रुत्वा, राज्यप्राप्तिं तथाऽऽत्मनः । हर्षोत्कर्षाज्जगादैवमजासूर्मन्त्रिपुङ्गवम् ॥४८१||
यदि देवतया दत्तं, राज्यं मे पूर्वपुण्यतः । तथाऽपि तन्महामात्य ! त्वद्बुद्ध्यैव मयाऽऽप्स्यते ॥४८२ ॥ यतः- यः किल परोपघाती, सति तस्मिन्नभिभवेज्जनं नाऽन्यः । पश्यत लोकैः क्रियते, दोषभयाल्लोहरक्षा हि ||४८३॥
कर्णे सोऽकथयत्तस्मै, यदेते पुरुषाः खलु । लक्षसङ्ख्यं तदश्वेभं, मया विद्धि नरीकृतम् ॥४८४॥ साश्चर्यं प्राह मन्त्री तमश्रद्धेयमिदं महत् । तिरश्चां मर्त्यरूपत्वं, पुनस्तैरश्च्यमेव तत् ॥४८५॥
परं मन्येऽन्यथा न स्याद्गूढा ते लक्षसैन्यता । विनेमां न वधो राज्ञो नैतद्राज्यं भवेच्च ते ॥ ४८६ ॥ ततोऽसम्भाव्यमप्येतत्, सुकरं तव कुर्वती । अधुना दास्यति प्राज्यं, राज्यं सा देवताऽनुगा ॥४८७॥ इत्यालप्य मिथस्तौ च, वेगादागत्य तां पुरीम् । सायं विविशतुः सार्धं, पुम्भिस्तैस्तु पृथक्कृतैः ॥४८८।। निभृतं गत्वा स्वज्ञातिगृहांस्तेनाऽथ मन्त्रिणा । प्रागुद्विग्नो नृपे राजलोको द्रागात्मसात्कृतः ॥४८९॥
सत्त्वेऽजापुत्रकथा ।
४३