________________
इतश्च तत्पुरीराजा, चन्द्रापीडो निशाऽत्यये । सस्मार देवतावाचमात्मघातनिवेदिनीम् ॥४६६॥ विमर्श च यः पूर्वं, कालो मे कथितस्तया । तस्याऽवधेस्तु पर्यन्ते, पक्ष एकोऽवसीयते ॥४६७॥ तदधुना समायातं, दैवज्ञं सत्यनामकम् । पृच्छामीत्यवधार्याऽन्तः, प्रातर्भूपस्तथाऽकरोत् ॥ ४६८॥ सोऽपि ग्रहबलं वीक्ष्य, निश्चित्य च यथातथम् । समाख्यद् भूभुजे राजन् !, पक्षाऽन्ते मरणं तव ॥४६९॥
धीरोऽपि हि नृपो वाचमेतामाकर्ण्य सत्वरम् । मृत्युनेव तदाऽऽलीढो बभूव गतचेतनः ||४७०|| ततः स्वरक्षणोपायान्, विधाय स विशेषतः । अजापुत्रस्य शुद्ध्यर्थं, प्राहिणोत् सर्वतश्चरान् ॥ ४७१ ॥ न कोऽपि च चरः सैन्यं, लक्षसङ्ख्यं समापतत् । आख्यत्ततो नृपः किञ्चिच्चित्ते स्वास्थ्यमुपेयिवान् ॥४७२॥ नित्यं कारयतः शुद्धि, चन्द्रापीडस्य भूपतेः । पक्षाऽन्तदिवसः साक्षान्मृत्युकाल इवाऽऽगमत् ॥४७३॥ इतश्चाऽपराधे कस्मिन्, सुबुद्धिः सचिवो निजः । चन्द्रापीडनृपेण प्राक्, पुरान्निर्वासतोऽभवत् ॥४७४॥ देशाद्देशं परिभ्राम्यन्, सुबुद्धिः सम्मुखोऽभवत् । अजापुत्रस्य स्वपुरीं, प्रति यातस्तदाऽध्वनि ॥४७५॥ सुबुद्धिर्वीक्ष्य तं लक्षपुरुषैः केवलैर्वृतम् । कल भैर्यथेशमिव, हृष्टश्चेतस्यचिन्तयत् ॥४७६॥
यं किलाऽकथयत् पूर्वं, राज्ञे सा देवता तदा । तस्य मृत्युकरः सोऽयमभ्येति खलु पुरुषः || ४७७৷৷
४२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।