________________
गोपुराणि ततोऽक्षीणीवोद्घाटितानि सर्वतः । पुर्या व्यापादिताऽरातिनिध्यानकौतुकादिव ॥४५४॥ महासेननृपस्यौर्ध्वदेहिकं सोऽकरोन्नृपः । क्षत्रियाणां रिपूच्छेदे, प्रीयन्ते पितरः खलु ॥ ४५५।। ततो नगरशोभाऽभूद्, वचनानामगोचरा । राज्यलाभजयप्राप्त्योर्मङ्गलानि च भूपतेः ॥४५६॥ अजापुत्रं च तैर्लक्षसङ्ख्यैरश्वेभपुरुषैः । सहाऽऽयातं समीक्ष्याऽथ, राजा सम्मुखमाययौ ॥ ४५७।। आनीय सौधमात्मीयं, तं प्रत्येष कृताञ्जलिः । राजाऽवोचन्महासत्त्व !, दत्तं मे जीवितं त्वया ॥४५८ ॥
रिपुभिर्लुण्ट्यमानं च, राज्यं मे रक्षितं त्वया । अशक्यो मादृशां वैरप्रतीकारस्त्वया कृतः ॥ ४५९॥
इत्यनेकोपकारैस्तैस्त्वं ममाऽस्युपकारकः । तत् समादिश येन स्यामनृणी सुहृदस्तव ||४६०|| सोऽथ तद्वचसा प्रीतः, प्राह प्रीतिपरं नृपम् । त्वत्समीहितसिद्ध्यैव, सिद्धं मम समीहितम् ॥४६१॥ परोपकारादन्या मे, नाऽभीष्टा शक्रताऽपि हि । स चाऽभूत्त्वयि सम्पूर्णस्तदलं द्रविणाऽऽदिभिः ||४६२॥ इत्याऽऽलप्य नृपं प्रीत्या, तस्थौ तत्रैव किञ्चन । अन्यदोत्कण्ठितः सोऽभूत्स्वकीयां नगरीं प्रति ॥४६३॥ अचिन्तयच्च यद्दृष्टं, दृग्भ्यां त्रिभुवनं मया । कृत: परोपकारश्च, तद्यामि स्थानमात्मनः || ४६४॥
चिन्तयित्वेति राजानमनुज्ञाप्याऽचलत्पुरात् । तैरश्वेभनरैर्लक्षसङ्ख्यै समकरैर्युतः ॥ ४६५ ॥
सत्त्वेऽजापुत्रकथा ।
४१