________________
अजापुत्रस्ततश्चाऽऽत्मपाथेयं तमभोजयत् । अथैतेऽवात्सुरेकस्मिन्, वनाऽन्तर्यक्षवेश्मनि ॥३९४॥ अन्ये ते सुषुपुः सर्वे, कुमारस्त्वार्द्रदुःखवान् । जाग्रदेवाऽशृणोच्छब्दं, ज्ञातुं तं च बहिर्ययौ ॥ ३९५॥ जगत्यां भ्रमन् शुश्राव, शुकनाशान्तरस्थिताम् । शुकं प्रति कथमस्था ? इत्यालापपरां शुकीम् ॥३९६॥ कुमारश्चिन्तयामास शुकद्वन्द्वमिदं खलु । वियुक्तं मिलितं भूयोऽनुयुङ्क्ते कौशलं मिथः ॥ ३९७॥ भवतु श्रोष्यामि शुकः, किमुत्तरं ददात्यसौ । ध्यात्वेति निभृतं सोऽयमारूढो देवताऽऽलयम् ॥३९८॥
शुकः प्राह शुकीं तन्वि ! धृत्वा मां शबरस्तदा । व्यक्रीणीत विजयाऽऽख्ये, पुरेऽक्रीणाच्च चेटिका ॥ ३९९॥
तया चाऽहं शीलमत्यै, महासेनमहीपतेः । पत्न्यै समर्पितः क्षिप्तः, पश्चात् सौवर्णपञ्जरे ॥४००|| साधुभाषीति सा भूयो भूयः पाठयते च माम् । मुक्ताहारकटकाऽऽदि स्नेहान्मां पर्यधापयत् ॥ ४०१॥ एवं हि लाल्यमानोऽपि, नाऽहं प्रापं सुखं प्रिये ! । त्वद्वियोगाऽग्निरन्तर्मां, दहन्न विरराम यत् ॥ ४०२|| ततश्च तस्य भूपस्य, पुत्रं विमलवाहनम् । मत्तो द्रागपहृत्याऽथ, क्वाऽप्यगात्पट्टकुञ्जरः ॥४०३|| तं तथाऽपहृतं राजा, न ददर्शाऽनुपद्यपि । तच्छ्रुत्वा नृपतिर्व्याप्तो, राज्यचिन्तां चकार न ||४०४॥ एतद्व्यसनमाकर्ण्याऽन्ये ते विपक्षभूभुजः । पुरं सर्वाऽभिसारेण, क्षणात् त्रिःपर्यवेष्टयन् ॥४०५॥
३६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।