________________
यो यथा वर्तते कालस्तथा सेवस्व वानर ! | मा वञ्जुलपरिभ्रष्टो, दृष्ट्वा मां खेदमाह ॥ ३८२॥ इति कथावदेषोऽपि, फलेनाऽभूत् पुमान् पुरा । पाथसा मर्कटो भूय, इत्यजासूरचिन्तयत् ॥३८३॥ स एवाऽयं स एवाऽयं, समागात् केलिमर्कटः । सम्भ्रमेण कुमार्याऽसौ, गृहीतो वक्षसा स्वयम् ॥३८४॥ राजा च तं निजं हारमादाय तस्य वाससी । आर्पयद्येन स्तेनत्वं, नृपाऽजासुतयोः समम् ॥३८५॥ मर्कटस्तु कुमार्यास्तं, समीक्ष्य स्नेहमात्मनि । नाऽहमेष्यामीत्याचष्टाऽजापुत्राय स्वसञ्ज्ञया ॥३८६॥ अजापुत्रोऽपि ते पाथश्चूर्णे आदाय तत्पुरात् । बहुबुद्धिमनुज्ञाप्य, मकरेण युतोऽचलत् ॥३८७॥ एकदा गच्छतस्तस्य, द्वियामसमये सति । हस्तिनाऽपहृतः कोऽपि, पुरुषः सम्मुखोऽभवत् ॥३८८॥
अजासूस्तं तथा दृष्ट्वा, श्लथगात्रमंचेतनम् । तच्चूर्णयुतमेकं हि मोदकं हस्तिनेऽक्षिपत् ॥ ३८९ ॥
तेनाऽऽत्तेन गजः सोऽभूत्, पुरुषोऽथाऽपरो नरः । आश्वास्य पृष्टः कस्त्वमित्याख्यादजाभुवे ततः ॥३९०॥ अहं हि विजयपुरस्वामिनश्छिन्नवैरिणः । महासेनस्य राज्ञोऽस्मि, पुत्रो विमलवाहनः ॥ ३९९॥
प्रसराऽर्थं समारूढः, कुञ्जरेणाऽऽवशेन तु । कर्मणेव जीवः कायात्, पुरात्तस्मात्क्षणाद्धृतः ॥३९२॥ अतः परं न जानामि, हतसर्वेन्द्रियक्रियः । इदानीं त्वां तु पश्यामि, मां वीजयन्तमात्मना ॥ ३९३॥
सत्त्वेऽजापुत्रकथा ।
३५