________________
मोचयित्वा श्रेष्ठिसुतं, राजाऽपृच्छदजासुतम् । त्वयाऽयं चोरितो हारः, स प्राह चोरितो मया ॥ ३७०॥
अरे ! मारयत स्तेनमेनमाश्विति भूभुजा । आदिष्टे प्राह स स्वामिन्नेकं शृणु वचो मम ||३७१॥ परवस्तुग्रहीता यः, स मार्यो भवतां किल । एतल्लेखय कुत्राऽपि, यतोऽस्त्यन्यो हि तस्करः || ३७२॥ अविज्ञाय वचस्तस्य, तत्क्रुद्धोऽलेखयन्नृपः । एतन्निर्वाह्यमित्युक्त्वाऽजापुत्रः प्राह भूपतिम् ॥ ३७३॥ ममैते वाससी तेन, स्तेनस्त्वमसि भूपते ! । यदि नो मन्यसे तत्त्वं, पारम्पर्यं विशोधय ॥३७४॥ पारम्पर्यं नृपो ज्ञात्वा, कोपताम्राऽऽननोऽब्रवीत् । अर्पितग्राहका न स्मस्तेन त्वमसि तस्करः || ३७५॥ निर्भयत्वाद्वदन्नेवमजासूरवदन्नृपम् । अर्पितग्राहकत्वाच्च, नाऽहमप्यस्मि तस्करः ||३७६।।
यतः- विपदादर्शनिमग्नः, समधिकस श्रीकतां भजेद्वीरः । पयसि प्रतिबिम्बधृतो, वह्निर्न किमुच्छिखः स्फुरति ? ॥३७७॥
सोऽप्याख्यद्यन्मया हारः,
कोशाऽध्यक्षं ततो राजा, समाहूयाऽन्वयुङ्क्त तम् । कुमार्यै तु समर्पितः ॥३७८॥ तदैवोद्यानतो भूपो, गत्वा वेश्माऽऽजुहाव ताम् । अपृच्छच्च सुतां वत्से !, हारः पार्श्वेऽस्ति ते न वा ? ||३७९ ॥
रुदती प्राह सा तात !, क्रीडावाप्यां पुरा मम । क्रीडन्त्यास्तत्क्षणाद्धृत्वा, क्वाऽप्यगात् केलिमर्कटः ॥ ३८० ॥
तन्निशम्य स तां दृष्ट्वा, शाखामृगनरः स्मरन् । तत्पीत्वाऽम्भः कपीभूय ययौ राजसुताऽन्तिकम् ॥३८१ ॥
३४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।