________________
स आत्मना तृतीयोऽस्थाच्छ्रेष्ठिगेहे स्ववेश्मवत् । अजासूः श्रेष्ठिने हारं, यत्नरक्षाऽर्थमार्पयत् ॥३५८॥
चूर्णग्रन्थि पयश्चाऽपि, शाखामृगनराय सः । समर्प्य नखशुद्धयर्थं दिवाकीर्त्तिकुटीं ययौ ॥ ३५९ ॥
,
तेनोद्वृत्तनख दत्त्वाऽर्थमजासूरगाद्गृहम् । वाससी पतिते ते तु, भूमौ क्षिष्ट नापितः || ३६०॥ कणावेतौ तु कीदृक्षावित्यादात् पाणिनाऽथ ते । कथं दिव्यांऽशुकयुगमिति स्पर्शाद्विवेद सः || ३६१॥ गृहीत्वा ते च मूल्येन, कस्याऽपि वणिजो ददौ । सोऽपि चोपायनीचक्रे, विक्रमस्य महीपतेः ॥३६२॥ वसन्तसमये प्राप्ते, वाससी ते समुज्ज्वले | परिधायेभमारुह्य, क्रीडोद्यानं ययौ नृपः ॥३६३॥
दक्षिणाऽनिलसंस्पर्शोन्मीलद्रोमोद्गमाः स्त्रियः । प्रदोषे वीक्ष्य राजाऽत्र, हर्षोत्कर्षादुवाच सः ॥ ३६४॥
माल्याऽञ्चिताऽभिमुखसिद्धवधूकुचाऽभिघातात् सुधांशुजलयन्त्रकृताऽभिषेकः । पीत्वाऽङ्गनावपुषि घर्मपयोऽत्रतापो, नाऽदात्पदं तदुदकं नटयन्नभस्वान् ॥३६५॥
इतश्च बहुबुद्धेस्तु, पुत्रोऽपि मतिसागरः । कण्ठे निधाय तं हारं, क्रीडोद्यानं जगाम सः ॥३६६॥
तत्राऽऽयान्तं ललत्कण्ठहारं तं वीक्ष्य भूपतिः । हारो मदीयोऽयमिति, तमाह्वत् पत्तिभिर्द्रुतम् ॥ ३६७॥ पृष्टः स आगतो राज्ञा, कुतो हारोऽयमद्य ते ? | अयच्छन्नुत्तरं बद्ध्वा, क्षिप्तो भूमौ वमन्नसृक् ॥ ३६८।।
बहुबुद्धिस्तु तच्छ्रुत्वा गृहीत्वा तमजासुतम् । उपेत्य भूपमाचख्यौ, राजन् ! हारोऽयमस्य हि ॥ ३६९॥
सत्त्वेऽजापुत्रकथा ।
३३