________________
सप्तक्षेत्र्यां धनं झुप्त्वा, कृत्वा हिंसादिवर्जनम् । कृततीव्रपरिव्रज्याप्रभावेनाऽस्मि वासवः ॥३४७।। इन्द्रसामानिकाऽऽद्याश्च, स्वल्पाऽल्पशुभकर्मणा । क्रमाद्धीनर्द्धयश्चैते, देवत्वं लेभिरे सुराः ॥३४८॥ अथाऽऽरात्रिकमुत्तार्य, जिनानां स हरिः स्वयम् । शक्रस्तवं भणित्वा च, दिवं यातुं प्रचक्रमे ॥३४९।। गच्छन् शक्रः समादिक्षद्देवं कमपि यत्त्वया । मोक्तव्योऽयं यथास्थानं, तेनाऽपि तत्तथा कृतम् ॥३५०॥ अजापुत्रस्ततस्तत्राऽऽगत्य ते दिव्यवाससी । पादाऽङ्गुष्ठनखाऽग्राऽन्तः क्षिप्त्वा सुप्तोऽन्तिके तयोः ॥३५१॥ जागरित्वा ततः स्फीताऽम्भोजश्रिसरसां जलम् । सुधांऽशुमुज्ज्वलं पश्यन्, शरदमित्यवर्णयत् ॥३५२॥ निर्मुष्टः शरदा शशी विमलता तल्लेषु लेभे जलैर्वित्ताय, व्यवसायिभिः प्रववृते ववे श्रियाऽम्भोरुहम् । आशां प्राप्य चिरादगस्तिरुदितः सस्येषु जातं फलं, गोपीभिः किल गीयतेऽत्र जगृहे दानं पुनः शालिभिः ॥३५३।। प्रातरुत्थाय ताभ्यां स, पुरीं यामीत्यचिन्तयत् । लब्धं जन्मफलं दृग्भ्यां , दृष्टं त्रिभुवनं मया ॥३५४।। लब्धं चूर्णं च येन स्युस्तिर्यञ्चो मानवाः खलु । मानवाः स्युश्च तिर्यञ्चो, येन तज्जलमस्ति मे ॥३५५।। तिर्यञ्चश्च नरीभूताश्चूर्णान् मे स्युर्वशंवदाः । सरोऽम्भसा नरो व्याघ्रः, स्यात्तिर्यक् तादृगेव हि ॥३५६॥ प्राप्तश्च नगरी सोऽगाबहुबुद्धिवणिग्गृहम् । ततश्च भव्यमूर्त्तित्वात्तस्य स्थानमदाद्वणिक् ॥३५७॥
३२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।