________________
वैक्रियं रूपमाधाय, दिव्यनेपथ्यविभ्रमाः । ननृतुश्चारुचारीभिः, पौलोम्युर्वशिकाऽऽदयः ॥ ३३५॥
विहाय भ्रामरं रूपं, तुम्बरूभूय सत्वरम् । नाऽऽयाति तुम्बरुर्यावत्तावदागादजासुतः ॥३३६॥ नमस्कृत्याऽर्हतः सर्वान्, रङ्गभूमिमुपेत्य च । अजापुत्रश्चित्रकृते, तुम्बरोः स्थानमासदत् ॥३३७॥ चकाराऽपूर्वगत्या हि, देवविस्मयकारिणीम् । स्वरग्राममूर्च्छनाऽऽढ्यामुच्चैरालप्तिमद्भुताम् ॥३३८||
किमेतदिति सम्भ्रान्तस्तुम्बरुस्तु निशम्य ताम् । अस्थान्निलीन एवाऽयं, किलैषोऽस्म्यहमेव हि ॥ ३३९॥ जिनानां पुरतः सोऽहं, गायन्नस्मीह पुण्यभाग् । आनन्दाद्गातुमारेभेऽजापुत्रः स्थानकैर्नवैः || ३४० ॥ कटरे तुम्बरोरद्याऽन्या, काऽपि गीतिनिर्मितिः । येनाऽऽस्ते चित्रवच्छक्र, इति प्रोचुर्मिथः सुराः || ३४१॥
आलतिलहरीपूर्णकर्णो देवप्रभुः स्वयम् । आजुहाव प्रसादाय, तं तुम्बरुविडम्बिनम् ॥३४२॥ यतः– गम्भीराः पश्य गुणैर्ग्राह्या बाह्याः किलैवमेवाऽपि । सगुणः कूपे कुम्भः, पूर्णः सरसि तु विनाऽप्येतान् ॥३४३॥ इन्द्राऽऽहूतः स चोपेत्य, क्षणात्स्वं रूपमादधौ । विस्मितः ससुरः शक्रो, मर्त्योऽयमित्यचिन्तयत् ॥३४४॥ हृष्टो विशेषतः शक्रो, ददौ स्वे दिव्यवाससी । स कथमागतोऽसीति, पृष्टश्चाऽऽख्यद् यथातथम् ॥३४५॥ देवानामृद्धिसम्भारमजापुत्रेण प्रेक्ष्य तम् । जाता यूयं कथमिति, पृष्टः शक्रोऽब्रवीदिति ॥ ३४६॥
सत्त्वेऽजापुत्रकथा ।
३१