________________
महासेनस्तथा ज्ञात्वा, निःसृत्य समरं व्यधात् । कुमारहस्तिसाहाय्याद्विना विनाशितः स तैः ॥४०६॥ ततो बुद्धिबलो मन्त्री, द्राक् प्रतोलीरदापयत् । राज्ञः शोकेन सर्वाणि, धरणकान्यमोचयत् ॥४०७।। अस्माकं मृत्युरायातो, विना विमलवाहनम् । तद्गच्छ जीव त्वमिति, मुक्तो दास्याऽस्मि पञ्जरात् ॥४०८।। अमात्योऽन्तर्बहिर्भूपा, लक्षसैन्यसमन्विताः । सन्तीति तत्पुरं मुक्त्वा, समागां प्रेयसि ! क्षणात् ॥४०९॥ शुकं विज्ञाय श्रुत्वा च, गताऽसुं पितरं निजम् । श्लथहस्तग्रहो भूमौ, कुमारौ मूच्छितोऽपतत् ॥४१०॥ तस्य पतननिर्घाताद्विनिद्रोऽभूदजासुतः । अपश्यंस्तत्र तं वेगादागाच्च तस्य सन्निधौ ॥४११।। उक्तोऽपि न यदा वक्ति, तदाजासूरवीजयत् । असिञ्चच्चाऽम्भसा सोऽथ, स्वस्थीभूतस्ततोऽवदत् ॥४१२।। खड्गं खड्गमरे ! पाणौ, देहि यत्पितृघातिनः । शत्रून् व्यापाद्य पित्रेऽहं, तदसृग्भिर्ददे पयः ॥४१३।। भीतोऽवोचदजापुत्रः, कुमारः क्व नु ते ह्यसि? । क्व शत्रवः ? क्व पिता ते ?, येनैवं भाषसे मुहुः ॥४१४॥ एवमुक्तः कुमारोऽसौ, क्षणमाधाय चेतनाम् ।। महासेनपितः ! क्वाऽसि ?, गतस्त्वमिति मूर्च्छति ॥४१५।। वीजयत्येव भूयोऽस्मिन्नजापुत्रे शुकस्ततः । महासेनेति तद्वाचं, श्रुत्वाऽगादहिराश्रयात् ॥४१६।। ज्योत्स्न्यां रात्रौ च राज्ञोऽयं, पुत्रो विमलवाहनः । कथमत्राऽऽगादिति स, ज्ञात्वाऽपतत्तदन्तिकम् ॥४१७।।
सत्त्वेऽजापुत्रकथा ।