________________
परस्परं च व्याहारमेतासामशृणोदिति । उत्सूरो नो भवत्येष, गन्तुमष्टापदे गिरौ ॥३११ ॥
इन्द्रोऽपि हि सहेन्द्राण्याऽथाऽऽयातो भविताऽधुना । इत्युक्त्वा ता विमानान्याजग्मुर्हस्तधृताऽम्बुजाः ॥३१२॥ अजापुत्रस्तरोर्मूले, तिरोभूयाऽतिनिश्चलः । अपरौ च तथा कृत्वा, स्वचेतस्यकरोदिति ॥ ३१३॥ मर्त्यलोको मया दृष्टो, दृष्टास्ते नरका अपि । वैमानिकसुरान् द्रष्टुं, गाढमुत्कण्ठते मनः ||३१४|| एतावत्रैव मुक्त्वा तत्, समं हारजलाऽऽदिभिः । व्यन्तराऽर्पितगुटिकाप्रभावाद् भृङ्गरूपकृत् ॥३१५॥
व्रजाम्यष्टापदेऽप्याभिर्धृताऽम्बुजकृतस्थितिः । इत्यालोच्य तयोः पुंसोस्तत्स्वरूपं समादिशत् ॥३१६|| [ युग्मम् ]
अनुज्ञातस्ततस्ताभ्यां, भ्रमरीभूय सत्वरम् । इतस्ततः परिभ्राम्यन्, युवत्यात्ताऽम्बुजेष्वगात् ॥३१७॥
विद्याधर्यश्च ता वीक्ष्य, गुञ्जन्तं भ्रमरं कलम् । अत्रैह्यत्रैहि कमले, तमित्याह्वानयन्ति च ॥ ३१८॥ शीघ्रमारुह्य ताः सर्वा, विमानं हि निजं निजम् । क्षणादष्टापदं जग्मुर्लालयन्त्यः शिलीमुखम् ॥ ३१९ ॥ उत्तीर्य ता विमानेभ्यः, पाणी प्रक्षाल्य पाथसा । त्रिश्च प्रदक्षिणीकृत्योच्चार्य नैषेधिकीः स्फुटम् ॥३२०॥ प्रविश्याऽन्तर्नताऽङ्ग्यस्ताः, कियद्भिः कमलैस्ततः । तत्राऽऽगमनतो धन्यंमन्या निर्मलचेतसः ॥३२१॥
यथामानान् यथावर्णान्, सिंहनिषद्यया स्थितान् ।
कान्तकान्तीनथाऽऽनर्चु, ऋषभाऽऽदीन् जिनानिमाः ॥३२२॥ [त्रिभिर्विशेषकम्]
सत्त्वेऽजापुत्रकथा ।
२९