________________
अजासूनुस्ततो मुक्तं, तत्रैकाकिनमेव तम् । शाखामृगनरं स्मृत्वा, यास्यामीत्याह भूपतिम् ॥ २९९॥ राज्ञश्च प्राणदानेन, प्राणेभ्योऽपि स वल्लभः । निशम्य तद्वचो राजा, नाऽस्मै प्रत्युत्तरं ददौ ||३००|| अजापुत्रस्तु भूयोऽपि, प्राह सप्रश्रयं नृपम् । इयत्कालं स्थितोऽस्म्यत्र, तन्मां विसर्जयाऽधुना ॥ ३०९ ॥ आग्रहादेवमुक्तस्तु स राजा तं व्यसर्जयत् । ददतो भूपतेस्त्वेष, नाऽगृह्णाद्वसु किञ्चन ॥३०२|| गृहीततत्सरो नीरो, मकरनरसंयुतः । तेनैव विवरेणैष, समागाद्यक्षवेश्म तत् ॥३०३||
गतेऽजातनये दध्यौ, विनिद्रो मर्कटः पुमान् । क्वाऽगात्स्वामीति भुक्त्वाऽत्र, मुहुः फलान्यशेत सः ॥३०४॥
ततोऽजासूस्तमैक्षिष्ट, तथैव किल शायिनम् । शाखामृगनरं निद्रावशेनाऽज्ञाततद्गतिम् ॥३०५॥ हसन्नुत्थाप्य तं गाढनिद्रारसवशाऽऽकुलम् । तदा सुप्तोत्थित इव, स प्रोवाच ससम्भ्रम् ॥३०६॥ उत्तिष्ठोत्तिष्ठ यामो हि, पुरीमतिदवीयसीम् । तृतीयश्च सहायोऽयं, बभूव सहगामुकः ॥३०७|| क्षणमात्रं सुप्त इव, विजृम्भिकाभृताऽऽननः । उत्थाय सोऽभवन्मार्गे, चलतेति वचोऽवदन् ॥३०८|| शाखामृगमकराभ्यां, पुम्भ्यां सममजासुतः । पुरीं प्रति व्रजन्नेष, वापीमेकां ददर्श च ॥३०९॥
तस्याश्च परितः स्वर्णविमानानि बहून्यथ । कुर्वतीर्जलकेलिं च, तत्राऽन्तर्युवतीः कति ॥ ३१०॥
२८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।