________________
त्वदनुरागिणी हर्तुं, त्वामनीशा ततश्च ते । अहार्षं भ्रातरं त्वं तु, दुःखेनाऽस्य हृतः खलु ॥२८७।। अपराधेनाऽप्येतेन, स्मरणीया पुनस्त्वया । व्यन्तराऽन्वयसम्भूताऽस्म्यहं सर्वाङ्गसुन्दरी ॥२८८॥ सप्रश्रयमुदित्वैतत्ततः सर्वाङ्गसुन्दरी । ताभ्यां सह नृपं नीत्वाऽमुञ्चत्तत्सरसो बहिः ॥२८९।। अकस्माच्च समायान्तं, समित्रं वीक्ष्य भूपतिम् । सम्मुखं सैनिकाः सर्वे, दधावुर्विहिताऽऽशिषः ॥२९०॥ कृतप्रणामानेतांश्च, सम्भाष्य वचनाऽमृतैः । तापसानामिवैतेषां, तत्राऽऽवासेषु जग्मिवान् ॥२९१॥ विश्रान्तं च नृपं प्रोचुस्ते यत्त्वद्रहिता वयम् । अस्थामाऽत्रैव पूर्लोकस्याऽशक्ता आस्यदर्शने ॥२९२॥ अथाऽऽयातं नृपं ज्ञात्वा, सुमतिः सचिवस्ततः । सनाथः पौरलोकेन, राज्ञः सम्मुखमाययौ ॥२९३।। कृताऽष्टाङ्गनमस्कारान्, सचिवानात्मवल्लभान् । राजकं पूर्जनं राजा, यथौचित्यमभाषत ।।२९४॥ ततश्च वाद्यमानेषु, पञ्चशब्देषु निर्भरम् । पठत्सु द्विजवृन्देषूच्चार्यमाणे जयध्वनौ ॥२९५।। दत्ताऽऽशीर्वादपौरस्त्रीवस्त्राऽन्तैः कृतवीजनः । कृतशोभा पुरीं पश्यन्, स्वसौधं प्राविशन् नृपः ॥२९६॥ [युग्मम्] महोत्सवविधानेन, कृतमङ्गलकौतुकः । पूर्ववन्नृपतिश्चक्रे, स्वसाम्राज्यमखण्डितम् ॥२९७।। मकरनरयुक्तोऽयमजापुत्रश्च तत्र सः । आत्मवद्भूभुजा दृष्टो, दिनान्यस्थात् कियन्त्यपि ॥२९८॥
सत्त्वेऽजापुत्रकथा ।
२७