________________
प्रमोदाऽश्रूणि मुञ्चन्तावजासूदुर्जयौ मिथः । आलिङ्ग्य गाढमेकस्मिन्नाऽऽसनेऽथ न्यषीदताम् ॥२७५।। हृष्टो राजा स्ववृत्तान्तमजासूनोरचीकथत् । हर्षविस्मयवान् सोऽपि, स्ववृत्तं भूभुजे पुनः ॥२७६।। अजासूरात्मभूपालदुःखाऽग्निभ्यां ज्वलद्वपुः । निर्वाप्याऽमृतकुल्याभिर्नृपवाग्भिस्ततोऽवदत् ॥२७७॥ मित्र ! त्वं मत्कृते प्राणानत्याक्षीस्तत्र वच्मि किम् ? । परोपकारकारित्वे, यतस्त्वमसि लम्पटः ॥२७८।। पुरीं प्रति चल माप !, गत्वा तत्र स्वदर्शनात् । निर्वापय निजं लोकं, प्रजाः स्वा देव ! पालय ॥२७९॥ त्वया विना मया दृष्टो, लोकस्ते शोकवान् रुदन् । विना हि पितरं स्वामिन् !, बालकानां कियत्सुखम् ? ॥२८०॥ ततश्चलत राज्ये स्वे, स्त्रीसङ्गं मुञ्चत द्रुतम् । एकान्तस्त्रीसमासक्तिर्नृपाणां व्यसनं महत् ।।२८१॥ इत्युक्तस्तेन राजाऽसौ, प्रबुद्धः स्वकुलं स्मरन् । सर्वाङ्गसुन्दरीं प्राह, यास्यामः स्थानमात्मनः ॥२८२॥ समायातो यतो भ्राता, ममाऽयं प्राणवल्लभः । हस्तिनामिव राज्ञां च, वृद्धाऽऽज्ञा ह्यङ्कुशायते ॥२८३॥ ज्ञात्वेति निश्चयं राज्ञः, प्राह सर्वाङ्गसुन्दरी । पराऽऽयत्ताः स्त्रियो नैव, नरास्तत्किमहं ब्रुवे ? ॥२८४॥ यदि यास्यथ तद् यात, न चैवं काऽपि मे क्षतिः । ममेदं हि मनो येन, युष्माभिः सममेष्यति ॥२८५।। किञ्चाऽऽत्मीयाऽपराधं ते, कथयाम्यधुना विभो ! । मयैव हस्तिरूपेण, कृतमेतन्महीपते ! ॥२८६।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।