SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ततस्तज्जलमाहात्म्यादजापुत्रः क्षणादपि । व्याघ्रीभूतो मकरेण, न ग्रस्तः सकलोऽप्यतः ॥२६३॥ अथाऽम्बुस्विन्नग्रन्थिस्थचूर्णस्याऽन्तःप्रवेशनात् । भावितस्तद्रसेनाऽऽशु, बभूव मकरो नरः || २६४॥ ग्रसितुं न नवा मोक्तुं शक्तस्तं मकरो नरः । निश्चेष्टः स तथाभूतो, लग्नस्तीरे क्रमात्ततः ॥ २६५॥ इतश्च क्रीडयित्वैका, निवृत्ताऽथ भुवस्तलात् । सर्वाङ्गसुन्दरी दासी, तमद्राक्षीत् तथास्थितम् ॥ २६६ ॥ कौतुकाद्वीक्ष्य तं व्याघ्रं, नरग्रस्तं ततश्च सा । स्वामिन्यै दर्शयाम्येतदिति तं द्रागुदक्षिपत् ॥ २६७॥ स्वशक्त्याऽऽनीय मुक्त्वा तं सर्वाङ्गसुन्दरीपुर: । देवि ! पश्येदमाश्चर्यं, हृष्टाऽवादीच्च तामियम् ॥२६८|| अथाऽसौ दुर्जयो राजा, पूर्वं तत्र कृतस्थितिः । सर्वाङ्गसुन्दरीप्राणनाथोऽपश्यत्तदद्भुतम् ॥२६९॥ ततोऽसावुन्मनीभूय, भूयो भूयो विलोक्य तम् । सस्मार कथितं कर्णे, तदा तद्देवतावचः ॥२७०॥ षण्मासाऽनन्तरं मित्रमेवंरूपव्यवस्थितम् । द्रक्ष्यसि त्वमित्यद्याऽहमस्मार्षमस्य दर्शनात् ॥२७१॥ स्मृत्वा दिव्यौषधीं तां च, घृष्ट्वाऽभ्यषिञ्चदात्मना । व्याघ्ररूपधरं मित्रं, ततश्च तत्प्रभावतः ॥२७२॥ निःससार नरीभूय, पुरुषाऽऽस्यादजासुतः । मकरोऽभूत् पुमानेव, द्वावप्येतौ च जीवितौ ॥ २७३॥ वीज्यमान: स्वयं राज्ञा, स्वस्थीभूतश्च किञ्चन । अजासूः प्रेक्ष्य राजानमुत्तस्थौ विगतश्रमः || २७४ ।। सत्त्वेऽजापुत्रकथा । २५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy