SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आः संसारस्त्याज्यो यस्मिन्नुत्पन्नाः प्राणिनः खलु । तदर्जयन्ति येनेह, कीदृग्दुःखस्य भाजनम् ॥२५१॥ इत्यादिशोचन्नुत्कम्पी, कृतस्वस्थानगामिधीः । अवोचद् व्यन्तरं यन्मां, मुञ्चाऽशु तत्सरस्तटे ॥२५२।। व्यन्तरेशस्ततो रूपपरावर्तनकारिकाम् । प्रसादाद् गुटिकां दत्त्वा, तमानैषीत्सरस्तटम् ॥२५३।। अजापुत्रोऽपि वीक्ष्य स्वं, तीरे तत्सरसः क्षणात् । गत्वा पश्यामि तं भूपमिति हर्षाच्चचाल सः ॥२५४॥ आरुरोह सरःपाली, यावत्तावन्नराः कति । स्वागतं स्वागतमिति, वाचोऽधावन्नमुं प्रति ॥२५५।। उपेत्य तं नमस्कृत्य, पप्रच्छुस्ते क्व भूपतिः ? । अजासूः प्राह सम्भ्रान्तो, नाऽहं जानामि भूपतिम् ॥२५६।। अथाऽऽकुलतराः प्रोचुस्ते यत्त्वां हस्तिना हृतम् । ददौ मोचयितुं झम्पां, सरस्यनुपदं नृपः ॥२५७।। ततःप्रभृति शोकाऽऽर्त्तः, पौरलोकोऽस्ति भीतिमान् । विना नासां मुखमिवाऽश्रीका पूश्च नृपं विना ॥२५८॥ इति प्राणच्छिदो वाचः श्रुत्वा तेषामजासुतः । वज्राहत इवाऽत्यर्थमिति चेतस्यधारयत् ॥२५९॥ निश्चितं व्यन्तरः कोऽपि, तं जहार महीपतिम् । मम प्राणकृते भूपो, हहाऽगात्कीदृशीं दशाम् ? ॥२६०॥ तद्गत्वा व्यन्तरेशं तमालोक्य क्वाऽपि भूपतिम् । अत्राऽऽनयामीत्यालोच्य, पुनझम्पां सरस्यदात् ॥२६१॥ विना व्यन्तरसान्निध्यान्मज्जन्तं तत्र वारिणि । अगिलन्मकरः कोऽपि, कटीं यावदजासुतम् ॥२६२॥ २४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy