________________
रागद्वेषमदैश्वर्याद्यायत्तैः प्राणिभिः सदा । मर्त्यलोककृतं पापमिहाऽऽगत्याऽनुभूयते ||२३९|| स्मारयित्वा स्मारयित्वा कर्म पूर्वभवाऽर्जितम् । पश्याऽयं जीवहिंसाकृत्, छिद्यते तीक्ष्णहेतिभिः ॥ २४०॥
अयमसत्यवादित्वादत्युष्णं पाय्यते त्रपु । अदत्ताऽऽत्तपरद्रव्यः, शूलमारोप्यते सौ ॥ २४९॥
परस्त्रीलम्पटश्चाऽयमतिध्मातां कृशानुना । ताम्रपञ्चालिकामेतां, बलादालिङ्ग्यते रटन् ॥२४२॥
अतिलोभाऽभिभूतोऽयमयन्त्रितपरिग्रहः । आरूढपापे शीर्षे तु, क्रकचेन विदार्यते ॥ २४३॥
भक्षितोपेक्षितत्वाभ्यां, देवद्रव्यविनाशकः । नानाविधामयं दीनो, नीयते नरकव्यथाम् ॥२४४॥ अयं परोपतापी च, कुम्भीपाकेन पच्यते । परमर्मप्रवादी च, भिद्यते खण्डशस्त्वसौ ॥ २४५॥
आहन्यमानकीलोऽयं, मुखे मिथ्याऽपवाददः । भञ्जकः परकार्यस्य, खण्डितोऽपि मिलत्ययम् ॥२४६॥ दुर्वाक्यभाषकञ्श्चाऽयं, तृषार्त्तः पाय्यते ह्यसृक् । परमाधार्मिकैर्देवैर्यथोपार्जितदायिभिः ॥२४७॥
शस्त्राशस्त्रि च युध्येते, अन्योऽन्यं वैरिणाविमौ । उग्रपापः स्वयं शेते, शाल्मलीकण्टकेष्वयम् ॥२४८॥
इत्यादियातनां पश्यन्न[T]रकाणां सुदुस्सहाम् । अन्तरुत्कम्पितोऽत्यर्थं, भेजे मूर्च्छामासुतः ॥ २४९॥
ततश्च व्यन्तरेशेन, जलाऽऽर्द्रवायुभिः कृतः । स्वस्थोऽजातनयः कम्पमानश्चित्ते त्वधारयत् ॥२५०॥
सत्त्वेऽजापुत्रकथा ।
२३