SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ स्वयं तत्राऽनुरागवान् 1 तयैवं प्रार्थितो राजा, दास्या पुरःस्थया सार्धं, तस्याः सौधं जगाम सः ॥२२७॥ सर्वाऽङ्गसुन्दरी साऽथ, समायान्तं विलोक्य तम् । सद्य उल्लाघफुल्लाऽक्षी, समुत्तस्थौ नृपं प्रति ॥ २२८ ॥ स्वयं चाऽऽकारयत् स्नानभोजनाऽऽदिक्रियां नृपम् । अतिप्रौढाऽनुरागोत्थप्रेम्णो हि किमु दुष्करम् ? ॥२२९॥ तया प्रेमजुषा सार्धं, भुङ्क्ते भोगान् महीपतिः । अत्यासक्तश्च नाऽस्मार्षीत्, स्वराज्यसुहृदाऽऽदिकम् ॥२३०॥ इतश्चाऽजासुतः सोऽपि, हस्तिनाऽपहृतस्तदा । आनीय मुक्तश्चाऽधस्ताद्, व्यन्तराऽऽवासभूमिषु ॥२३१॥ वराकं मानुषं त्वेतत्को जहार भुवस्तलात् । इत्युक्त्वा तं निनायैको व्यन्तरो व्यन्तराऽधिपम् ॥ २३२॥ अजापुत्रो नमस्कृत्य, व्यन्तरेशं महर्द्धिकम् । अकथयत् स्ववृत्तान्तं, स तस्मै विहिताऽञ्जलिः ॥२३३॥ मा भैषीस्त्वां यथास्थानं, मोक्ष्यामो वयमेव हि । तिष्ठ त्वं रोचते यावदत्र स्ववेश्मनीव भोः ! ॥२३४॥ इत्युक्तोऽस्थादजापुत्रस्तत्र तदृद्धिनन्दितः । व्यन्तरेशमथाऽपृच्छत्, किञ्चिदप्यस्त्यतोऽप्यधः ? ॥ २३५ ॥ व्यन्तरेशस्ततोऽवोचदितोऽधः सन्ति सप्त भोः ! । नरका ये हि पापस्य, व्ययकारणतां ययुः ॥ २३६॥ गाढोत्कण्ठावतो दृग्भ्यां, द्रष्टुं तां नरकस्थितिम् । व्यन्तरेशः प्रभावाऽऽढ्यस्तस्य मूर्ध्नि करं न्यधात् ॥२३७॥ तत्प्रभावेन्द्रजालेन तस्य तां पश्यतः स्फुटम् । व्यन्तरेशः स्वयं चख्यौ, पृथग्नारकयातनाम् ॥ २३८॥ २२ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy