________________
अन्यदा भूभुजा सार्धं, सोदर्यवदजासुतः । धुन्वन्नाश्चर्यतः शीर्ष, तत्सरो द्रष्टुमाययौ ॥२०५।। अथाऽसौ सनृपो यावत्, पश्यंस्तीरेऽस्ति तत्सरः । तावज्जलचरो हस्ती, प्रादुरासीत् समीपगः ॥२०६।। उत्फुल्लाऽक्षमजापुत्रं, भूभुजो निकटे स्थितम् । करेणाऽऽच्छिद्य तत्रैव, सोऽमज्जत् सरसि क्षणात् ।।२०७।। राजा ससम्भ्रमं क्वाऽमुं, हृत्वा त्वं यासि रे द्विप ! । वदन्नेवाऽसिमाकृष्य, ददौ झम्पामनुद्विपम् ॥२०८।। अग्रे हस्ती स्वयं पश्चादिति गच्छन् महीपतिः । नाऽपश्यद्द्विपमद्राक्षीत्, किन्त्वेष चण्डिकां पुरः ॥२०९।। अहो ! क्वाऽगाद्विपः सैष, स येनाऽपहृतः सुहृत् । कैषा भट्टारिका ? यस्याः, प्रासादो हेमनिर्मितः ॥२१०॥ किञ्चाऽनुपकृतः सोऽभूत्प्राणदानोपकारकः ।। अहमुपकृतः प्राणैस्तस्य स्यामनृणो यदि ॥२११।। निश्चित्यैवं द्विपं हन्तुं, यमाकर्षन्महीपतिः । छेत्तुं तेनाऽसिनाऽऽरब्धं, स्वशीर्षं देवतापुरः ॥२१२।। मा साहसं मा साहसमिति सम्भ्रमवागसौ । प्रत्यक्षीभूय सा तस्य, हस्तमाधत्त देवता ॥२१३॥ किमेतद्भवताऽऽरब्धं ?, त्वं किन्न श्रुतवानसि ? । परस्यैवाऽऽत्मनोऽपि स्याद्वधः पापाय भूयसे ॥२१४।। अथोवाच नृपः सर्वं, जानाम्येतच्छृणोमि च । किन्त्वस्मि प्राणितुं नाऽलं, विना तेनोपकारिणा ॥२१५।। १. जीवितुं ।
२०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।