________________
द्वीपीभूतेऽपि त्वय्यत्र, स्वराज्यमधितिष्ठति । प्रत्यर्थिहरिणेभ्योऽपि, क्लीबाः स्मो बिभ्यतः स्थिताः ।।१९५॥ दशामेनां त्वयि प्राप्तेऽभ्युदितेऽपि हि भास्वति । लोकानामस्तमेवाऽभूद्, भवज्जीवितजीविनाम् ॥१९६।। इत्युक्त्वा मन्त्रिमुख्येषु, विरतेषु महीपतिः । पुनर्जात इवाऽपृच्छत्, स्वप्रजाराज्यकौशलम् ॥१९७॥ अजापुत्रमपूर्वं च, दृष्ट्वा भ्रूसञ्जया नृपः । अप्राक्षीत्सचिवं सोऽपि, नृपायैवं व्यजिज्ञपत् ॥१९८॥ नाथैष तव तैरश्च्यदुर्दिनस्य प्रभञ्जनः । मन्दिरेऽत्र यथाऽवस्थामकार्षीत् त्वद्वपुस्तरीम् ॥१९९।। अथाऽऽत्मस्वरूपज्ञानादजापुत्राय साऽञ्जसम् । प्रवृत्तो दातुं हस्त्यश्वस्वर्णाऽऽदिपारितोषिकम् ॥२००॥ अथाऽसाववदद्भूपं, ममैभिः पूर्यते विभो ! । प्रीतिरेव सतां याच्या, किमन्यैः काञ्चनाऽऽदिभिः ? ॥२०१॥ यतः-स्नेहो न कार्यः किल यत्र तत्र, स्थानत्रये बध्यत एव मन्थाः । किन्तूत्तमैः सङ्गतिरप्यभीष्टा, तैलं करुण्याः कति नाऽभ्यनन्दन् ? ॥२०२॥ ततो विशेषतस्तुष्टः, स्वमात्मानमिवाऽपरम् । पश्यन्नजासुतं राजा, तत्रोत्सवमकारयत् ॥२०३।। वर्षाभू इव काले स्वे, पौरास्ते मृतजीविताः । जय जयेत्युद्घोषन्तोऽकार्युः पुर्यां महोत्सवम् ॥२०४।।
१. यथा दधिमटक्यां स्नेहं कुर्वन् मन्था अधोमध्योर्ध्वस्थानत्रये दवरकेण बध्यते । २. मल्लिकापुष्पस्य । ३. पुरुषान् । ४. मण्डूकः ।
*
सत्त्वेऽजापुत्रकथा ।।