________________
प्रसादं कुरु तत्राऽर्थे, चलताच्च नृपौकसि । ऊचे कृताऽञ्जलिः सोऽमुं, कार्याऽर्थी स्यान्मृदुः खलु ॥१८३॥ गृहीत्वा तमजापुत्रमारक्षकनरो ययौ । यत्राऽऽस्ते स नृपद्वीपी, पुच्छमाच्छोटयन् भुवि ॥१८४॥ बहिर्विमुच्य तं तत्र, गत्वाऽमात्यं व्यजिज्ञपत् । मन्त्र्यादिष्टः पुनः सोऽमुं, गृहीत्वाऽन्तःसमाविशत् ॥१८५॥ वीक्ष्याऽऽयान्तमजापुत्रमभ्युत्तस्थौ कृताऽञ्जलिः । ससभः सचिवो येन, बालोऽपि कार्यकृद्गुरुः ॥१८६।। सिंहासने निवेश्यैनमुपविश्याऽग्रतः स्वयम् । मन्त्री विनयवांस्तस्मै, प्राग्वृत्तान्तमचीकथत् ॥१८७॥ किञ्च ममोपदिष्टस्त्वं, वैश्वानरतरुस्थया । स्वप्नेऽद्याऽऽगत्य मे राजकुलदेवतया तया ॥१८८।। अजापुत्रो नृपस्यैतत्तैरश्च्यमपनेष्यति । ततो ज्योतिःप्रपञ्चेन, सा क्षणात्त्वामिहाऽऽनयत् ॥१८९।। तत्प्रसीद कृपालुः स्याः, भव त्वं राजकार्यकृत् । स्वयं कृपालवः सन्तः, किं पुनः प्रार्थिताः परैः ? ॥१९०।। एवमभ्यर्थितस्तेन, स्वयं च स कृपापरः । कृत्वैकान्तं नृपव्याघ्रायाऽदात्तच्चूर्णमद्भुतम् ।।१९१।। तेनाऽशितं च तच्चूर्णं, जातश्च स्वाऽकृतिर्नृपः ।
औषधप्रभावोऽचिन्त्य, इति सत्यमभूत्तदा ।।१९२।। पूर्वरूपधरं भूपमालोक्य सचिवाऽऽदयः । हर्षरोमोद्गमा नेमुरानन्दाऽश्रुपयोमुचः ॥१९३॥ जय जय प्रजापाल !, कालः प्रत्यर्थिभूभुजाम् । एतावन्ति दिनानि त्वं, नाथ ! प्राप्तोऽसि कां दशाम् ? ॥१९४॥
१८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।