________________
अवशोऽयं नृपव्याघ्रो दधावे सैनिकान् प्रति । व्यदारयच्च पुत्रं स्वं, नरसिंहं पुरस्स्थितम् ॥१७३।। जातेऽथ तुमुले तत्र, सैनिकेषु रुदत्सु च । कोऽपि पत्तिर्महाप्राणो, दधे पुच्छे तमेककः ॥१७४॥ धृते तस्मिन् नृपव्याघ्रो मेढीबद्धोक्षवत्ततः । भ्राम्यत्यागत्य ते सैन्याः कण्ठे पाशमथाऽक्षिपन् ॥१७॥ गाढं नियम्य च व्याघ्रं, सर्वेऽपि परितः स्थिताः । आनीयाऽत्र ततो वज्रपुञ्जरे तं न्यधुर्बलात् ॥१७६।। व्याघ्रीभूते नृपे तस्य, पुत्रे स्वर्गमुपेयुषि । अनाथो नगरीलोकस्तेन शोकवशङ्गतः ॥१७७।। निशम्यैवमजापुत्रस्तमपृच्छदतुच्छधीः । ददौ किं भो ! न कोऽप्यस्मै, मन्त्रचूर्णौषधाऽऽदिकम् ? ॥१७८॥
खेदात्स प्राह चूर्णाऽऽदि दत्तं दत्तं घनैर्घनैः । नाऽभूत्किमपि केनाऽपि, सर्वं पुण्ये हि सस्फुरम् ॥१७९॥ यत:- जानात्येव जनो ह्युपार्जितुमलं लक्ष्मी प्रभुं सेवितुं, मित्रं स्नेहयितुं गदं शमयितुं वक्तुं सदस्यद्भुतम् । न्यक्क रिपुमुत्तरीतुमुदधिं किं किं विधातुं न वा, किन्तु स्वैरविजृम्भिणो यदि मतं स्यात्कर्मणोऽमर्षिणः ॥१८०॥ अजापुत्रो विहस्याऽऽह, द्वीपिनं मे प्रदर्शय । यदि पुण्यं पुनस्तस्य, स्यात्कीर्तिश्च भवेन्मम ॥१८१॥ आरक्षकनरः श्रुत्वा, तस्य तन्मुद्रितं वचः । दधौ सम्भावनां चित्ते, स्यादातॊ हि न नास्तिकः ॥१८२॥ १. प्राकृताऽनुकरणमेतत्, इतरथा संस्कृते तु मेधि-मेथिशब्दावुपलभ्येते, तथाहि- मेधिर्मेथिः खलेवाली खले गोबन्धदारु यत्' इत्यभिधानचिन्तामणौ ।
सत्त्वेऽजापुत्रकथा ।
१७