________________
तन्मार्गेऽङ्गारभाजीव, न सञ्चरति पूर्जनः । सिद्धौ सिद्धवद् यो यत्राऽऽसीनः स तत्र निष्क्रियः ॥१६१॥ नाऽऽपणे वणिजः सज्जा, न पूजा देववेश्मसु । न पाठः पाठशालासु, क्रीडन्ति शिशवोऽपि न ॥१६२॥ इति पश्यंश्चतुर्दिक्षु, स शून्यामिव तां पुरीम् । इतस्ततः परिभ्राम्यन्, राजप्रासादमागमत् ॥१६३।। समीक्ष्याऽऽरक्षकं द्वारे, नियुक्तमन्वयुङ्क्त सः । किमत्र दृश्यते लोकः, शोकशङ्कुसमाकुलः ? ॥१६४।। क्षामाऽक्षरमथोवाच, सोऽयमारक्षकः पुमान् । किं मां पृच्छसि भोः पान्थ !, पृच्छ दैवमवत्सलम् ॥१६५॥ तथाऽपि कथयेत्युक्तो ह्यजापुत्रेण सोऽवदत् । शृणु तर्हि निबन्धश्चेद्दुःखसम्भागभाग् भव ॥१६६।। एकदा दुर्जयाऽऽख्यस्य, राज्ञोऽस्माकमुपेयुषः । आखेटकायाऽऽरण्येऽभूत्रियामसमयं दिनम् ॥१६७।। पिपासाबाधितश्चैष, बभ्राम परितो वनम् । महाद्रुगहने क्वाऽपि, प्रैक्षिष्ट विपुलं सरः ॥१६८।। यावदभ्येति कोऽप्यन्यस्तावदुत्तीर्य वाजिनः । तृषाऽऽक्रान्तः स्वयं तत्र, गत्वाऽपात्सलिलं नृपः ॥१६९।। पीतं च तत्पयो राजा, द्वीपीभूतश्च तत्क्षणात् । अनुधावन्नरैदृष्टः पिबन् पाथस्तथाऽभवन् ॥१७०॥ यथाश्चर्याय साध्वीनां, विद्याशक्त्या स्वयं किल । व्याघ्रोऽभूत्स्थूलभद्रो द्राक्, तथाऽयं पाथसा नृपः ॥१७१॥ अत्याहितमत्याहितमिति वाचश्च सैनिकाः । दधातुः सर्वतो रोद्धं, गच्छन्तं तं वनं प्रति ॥१७२।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः