SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तदा च यक्षवेश्माऽन्तरकस्मादतिनिर्भरः । समुद्योतोऽभवद् ध्वान्तकान्तारदावपावकः ॥१४९।। अजापुत्रस्तमुद्योतं, वीक्ष्य दक्षजनाऽग्रणीः । उत्थाय शनकैस्तत्र, जगाम भ्रमसम्भृतः ॥१५०॥ अजापुत्रे समायाते, ज्योतिः किञ्चिदगादधः । सोऽपि तन्मार्गगो निर्भीविवराऽन्तः समाविशत् ॥१५१॥ यथा यथैत्यजापुत्रो ज्योतिर्याति तथा तथा । अधोऽधो यावदायाता, सर्वतः पृथिवी समा ॥१५२॥ ततो ज्योतिस्तिरोभूतमाविर्भूता च काऽपि पूः । किमेतदिति सम्भ्रान्तस्तस्थौ ध्यायन्नजासुतः ॥१५३।। क्व ? गतं तच्चलं ज्योतिर्येनाऽऽनीतोऽस्म्यधस्तथा । पू: कैषा ? विवरं तत्क्व?, यस्मादहमिहाऽऽगमम् ॥१५४|| शाखामृगनरश्चैष, हा ! पश्चादेककः स्थितः । विना मां स कथं भावी ?, मदेकशरणो हि सः ॥१५५॥ किङ्करोमि ? क्व वा यामि ?, दुस्स्थाऽवस्थाविडम्बितः । इत्येवं चिन्तयित्वाऽसौ, चचाल नगरी प्रति ॥१५६।। चूर्णीकृत्य फलं पट्यां, बद्ध्वा हारस्रजं कटौ । प्रभाते प्रविशन् पुर्याः, पद्रेऽद्राक्षीदिमां दशाम् ॥१५७॥ उन्नदन्त्युन्मुखीभूय, शृगालाः शोकशंसिनः । फेत्कुर्वन्ति शिवा घूका, निःशङ्कं वासयन्ति च ॥१५८॥ काककोलाहलो व्योम्नि, कर्बरीकलहो भुवि । रटन्ति सारमेयाश्च, युध्यन्ते भृशमोतवः ॥१५९॥ पश्यन्नेवं स्मयाऽऽपन्नः, प्राविशत्पुरगोपुरम् । यथा बहिस्तथैवाऽन्तरपश्यदुर्दशां पुरः ॥१६०॥ सत्त्वेऽजापुत्रकथा । १५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy