________________
तत्प्रसीद गृहाण त्वमक्षतं फलमात्मनः । एनां मुक्तास्रजं चाऽपि, गृहाणाऽनुगृहाण माम् ॥१३८॥ अतःप्रभृति दासोऽस्मि, भृत्योऽस्मि किङ्करोऽस्मि ते । दत्तो नाथ ! त्वया यन्मे, दुष्प्रापो मानुषो भवः ॥१३९।। त्वया सह समेष्यामि, छायावद्यत्र यास्यसि । इत्युदीर्य ततः सोऽस्मै, सहारं फलमार्पयत् ॥१४०।। अजापुत्रः स तां वाचमाकप॑ति व्यचिन्तयत् । ममैतद्देवतादत्तफलस्य प्रथमं फलम् ॥१४१।। गतं तैरश्च्यमेतस्य, रम्यं मर्त्यत्वमागतम् । एकाकिना न गन्तव्यमित्यर्थेऽभूत्सखा च मे ॥१४२॥ देवताऽधिष्ठितैर्मन्त्रफलचूर्णौषधाऽम्बुभिः । जन्तो रूपपरावर्तः श्रूयते नाऽत्र संशयः ॥१४३।। इत्यालोच्य समादाय, तदर्पितफलस्रजौ । चचाल सार्धमेतेन, शाखामृगनरेण सः ॥१४४।। वीक्ष्याऽस्ताऽचलचूलस्थमजापुत्रस्त्वहर्पतिम् । शाखामृगनरं प्रोचे, मुग्धवैदग्ध्यवागिति ॥१४५।। हासोच्छ्वासितकैरवोद्यदलिनीध्वान ध्रुवाऽगीतिभिः, संसूच्याऽर्कनटस्तमोयवनिकां यत्प्राप्य निष्कामति । तन्नक्षत्रविचित्रपात्रसुभगव्योमैकरङ्गाऽङ्गणे, तामुत्क्षिप्य वयस्य ! पश्य भविता राज्ञः प्रवेशोऽधुना ॥१४६।। प्रदोषसमये देवकुलिकां तावपश्यताम् । भीषणाऽत्राऽहमेवेति, भुवोत्क्षिप्ताऽङ्गुलीमिव ॥१४७|| अथ तौ खिन्नसर्वाऽङ्गौ, वासाऽर्थं तत्र जग्मतुः । शाखामृगनरः सुप्तो, जागर्त्यजासुतः पुनः ॥१४८।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।