________________
पितेव तनयैर्वृक्षैः, सफलैः सुभगं सरः । पथि दृष्ट्वा जहर्षाऽयं, दातारमिव याचकः ॥१२७॥ अथाऽसौ पालिमारुह्याऽसह्यमार्गश्रमाऽऽकुलः । ग्रन्थिबद्धफलां मुक्त्वा, पटीमधिजलं ययौ ॥१२८॥ दुःखाऽऽर्त्त इव धर्मोपदेशं प्राक् स जलं पपौ । पश्चाद् व्रतमिव स्नानं, विधातुमुपचक्रमे ॥ १२९॥ इतश्च मर्कटः कश्चित्परिभ्राम्यन्नितस्ततः । कण्ठपीठलुठन्मुक्ताहारोऽगात्तां पटीं प्रति ॥ १३०॥
सफलग्रन्थिमाघ्राय, फलमत्तुं कृतस्पृहः । पादाग्रैर्ग्रन्थिमुद्ग्रन्थ्य, फलमादाय नष्टवान् ॥१३१॥ अजापुत्रः कृतस्नानो, यावद् याति पटीं प्रति । फलशून्यामपश्यत्तां, पुत्रशून्यामिव स्त्रियम् ॥१३२॥ पटीं निभृतमालोक्य, फलं यावन्न पश्यति । भयविस्मयमूढात्मा, तावदेतदचिन्तयत् ॥१३३॥ अरण्यस्थे सरस्यस्मिन्नसत्यन्यजनेऽधुना । अकस्मात्केन मत्पुण्यमिव हाऽपहृतं फलम् ॥१३४॥ निक्षिप्य चक्षुषी दिक्षु, यावदास्ते स विस्मितः । तावदागात्पुमानेको, मूर्त्तिमानिव मन्मथः ॥१३५॥
तूर्णमभ्यर्णमभ्येत्य, सोऽजापुत्रं कृताऽञ्जलिः । नत्वाऽवोचदिमां वाचं, सुधासब्रह्मचारिणीम् ॥१३६॥
शाखामृगचरः सोऽहमादां फलमिदं तव । तद्वृन्ताऽग्ररसाऽऽस्वादाज्जातोऽस्मि पुरुषः क्षणात् ॥१३७॥
१. पूर्वं शाखामृग:, इति शाखामृगचर: 'भूतपूर्वे चरट्' ५।३।५३ |
सत्त्वेऽजापुत्रकथा ।
१३