________________
सधैर्यं तानुवाचैष मा यूयं भवताऽऽतुराः । मया कार्योऽयमर्थो वा, इत्युक्त्वामार्त्तमाविशत् ॥ ११६॥ हहा ! प्लुष्टो विनष्टोऽयमिति यावद्वदन्ति ते । आत्तफलद्वयस्तावदजासूर्निरगाद् बहिः ||११७||
जय त्वं सात्त्विकाऽधीश !, जयाऽकारणवत्सल ! । अस्मत्कुटुम्बपुण्येन, जीव शाश्वतिकीः समाः ॥११८॥ परार्थाऽऽधानेच्छा रमयति मनो यस्य स पुमान्, प्रिया यद्वागुच्चैः प्रथयति परार्थं स हि कृती । क्रियाभिर्यश्चैनं घटयति स पन्थाः स्तुतिगिरां, प्रपन्नं यः कुर्यात्सततमपि वन्द्यः स तु सताम् ॥ ११९॥ एवमाशीर्जुषां तेषामार्पयत्स फलद्वयीम् । आत्तफलद्वयास्ते चाऽजापुत्रमभितुष्टुवुः ॥१२०॥
पप्रच्छ्रुस्तममी गर्त्तादप्लुष्टो निरगाः कथम् ? | स ऊचे देवताऽन्तःस्था, मम सान्निध्यमादधौ ॥१२१॥
तुष्टा मत्साहसादेतत्, फलद्वयमदान्मम । स्वयं चाऽऽनीय मुक्तोऽस्मि ज्वलद्गर्त्ताद् बहिस्तया ॥ १२२ ॥ निशम्यैवं तमूचुस्ते, त्वमेको भुवि सात्त्विकः । त्वं परार्थेऽत्यजः प्राणान्, स्मः स्वाऽर्थेऽपि कातराः ॥ १२३॥
फलमेकं गृहाण त्वं, कार्यं स्यादमुना क्वचित् । एकेनाऽस्मच्छिशो रोगो, महाभाग ! गमिष्यति ॥ १२४॥
एवमुक्त्वाऽर्पयित्वा तदजापुत्राय ते फलम् । इष्टाऽर्थप्राप्तिसन्तुष्टाश्चलिताः स्वपुरं प्रति ॥ १२५ ॥
अजापुत्रोऽपि तत्कार्यसम्पादनप्रमोदितः । पुरीं प्रति चचालैकं, फलमादाय सत्वरम् ॥१२६॥
१२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।